ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
नाना शब्दादिभेदात् ॥ ५८ ॥
पूर्वस्मिन्नधिकरणे सत्यामपि सुतेजःप्रभृतीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम्अतः प्राप्ता बुद्धिःअन्यान्यपि भिन्नश्रुतीन्युपासनानि समस्य उपासिष्यन्ते इतिअपि नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यतेवेद्यं हि रूपं विद्यायाः, द्रव्यदैवतमिव यागस्यवेद्यश्च एक एव ईश्वरः श्रुतिनानात्वेऽप्यवगम्यतेमनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ५) सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । १ । ५) इत्येवमादिषुतथा एक एव प्राणः प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च’ (छा. उ. ५ । १ । १) प्राणो पिता प्राणो माता’ (छा. उ. ७ । १५ । १) इत्येवमादिषुवेद्यैकत्वाच्च विद्यैकत्वम्श्रुतिनानात्वमपि अस्मिन्पक्षे गुणान्तरपरत्वात् अनर्थकम्तस्मात् स्वपरशाखाविहितम् एकवेद्यव्यपाश्रयं गुणजातमुपसंहर्तव्यं विद्याकात्स्न्याय इत्येवं प्राप्ते प्रतिपाद्यते

भिन्नश्रुतीनामपि सुतेजस्त्वप्रभृतीनां समस्तोपासनं ज्यायश्चेत्तर्हि सर्वोपास्तीनामपि भिन्नश्रुतीनां समस्तोपासनं ज्यायः स्यादित्याशङ्क्याह -

नानेति ।

दहरविद्यादिब्रह्मोपासनानि प्राणोपासनानि च विद्याभेदादभिन्नानि वा शब्दादिभेदाद्भिन्नानि वेति सन्देहे पूर्वन्यायेन पृर्वपक्षयति -

पूर्वस्मिन्निति ।

शाण्डिल्यविद्यादीनामभेदे हेत्वन्तरमाह -

अपिचेति ।

तत्र सदृष्टान्तं हेतुमाह -

वेद्यं हीति ।

तत्र तत्र श्रुतिषु सत्यसङ्कल्पत्वादिगुणविशिष्टब्रह्मभेदाद्विद्याभेदोऽपि नास्तीत्याशङ्क्य ब्रह्मणः सिद्धत्वात्तदुपाधौ तद्गुणानामपि व्यवस्थानाद्युक्तं वेद्यैक्यमित्याह -

वेद्यश्चेति ।

श्रुतिनानात्वेऽपि तत्तदाध्येयगुणश्रुतिभेदेऽपीति यावत् ।

ब्रह्मोपासनेपु वेद्याभेदेऽपि कथमब्रह्मोपासनेष्वित्याशङ्क्याह -

तयेति ।

तदेकत्वेऽपि विद्यानानात्वं किं न स्यादित्याशङ्क्य रूपाभेदान्मैवमित्याह -

वेद्येति ।

विद्यैक्यं चेदेकत्र विहितायास्तस्या नान्यत्र विधानमर्थवदित्याशङ्क्याह -

श्रुतीति ।

ब्रह्मप्राप्तिफलसंयोगस्योपास्यब्रह्मरूपप्रकृत्यर्थोपासनाभ्यामविच्छिन्नप्रत्ययार्थप्रयत्नचोदनायाश्च ब्रह्मविद्यासमाख्यायाश्चैक्याद्विद्यैक्ये फलितमाह -

तस्मादिति ।

शब्दादिभेदाद्विद्याभेदोक्त्या वाक्यार्थधीहेतोरेवात्रापि चिन्तनात्पादादिसङ्गतिः । पूर्वपक्षे पूर्ववद्विद्यैक्यम् ।

सिद्धान्ते तदयोगात्तन्नानात्वमिति सिद्धवत्कृत्य सिद्धान्तयति -

एवमिति ।