ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
नाना शब्दादिभेदात् ॥ ५८ ॥
नानेतिवेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हतिकुतः ? शब्दादिभेदात्भवति हि शब्दभेदः — ‘वेद’ ‘उपासीत क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १) इत्येवमादिःशब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात्शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्इतिआदिग्रहणात् गुणादयोऽपि यथासम्भवं भेदहेतवो योजयितव्याःननुवेदइत्यादिषु शब्दभेद एव अवगम्यते, यजतिइत्यादिवत् अर्थभेदः, सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् , अर्थान्तरासम्भवाच्चतत् कथं शब्दभेदाद्विद्याभेद इति? नैष दोषः, मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेःएकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्तेतथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्यादृग्गुणोऽन्यत्रोपासितव्यः अन्यादृग्गुणश्चान्यत्रइत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते अत्र एको विद्याविधिः, इतरे गुणविधय इति शक्यं वक्तुम्विनिगमनायां हेत्वभावात् , अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याःप्रतिप्रकरणं इदंकामेनेदमुपासितव्यम् , इदंकामेन इदम्इति नैराकाङ्क्ष्यावगमात् नैकवाक्यतापत्तिः अत्र वैश्वानरविद्यायामिव समस्तचोदना अपरा अस्ति, यद्बलेन प्रतिप्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुःवेद्यैकत्वनिमित्ते विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने, समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेततस्मात् सुष्ठु उच्यतेनाना शब्दादिभेदादितिस्थिते एतस्मिन्नधिकरणे, सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥ ५८ ॥

सूत्राक्षराणि योजयति -

वेद्येति ।

रूपाभेदादभेदोक्तेर्न विद्यानानात्वमित्याह -

कुत इति ।

सौत्रहेतुमुक्त्वा शब्दभेदं विभजते -

शब्दादीति ।

तद्भेदेऽपि मा भूदुपास्तिनानात्वमित्याशङ्क्याह -

शब्देति ।

पुरस्तादिति पूर्वतन्त्रोक्तिः । भिन्नभावार्थविषयः शब्दः शब्दान्तरम् । यथा यजति ददाति जुहोतीति । तस्मिन्सति कर्मभेदः कृतानुबन्धत्वाद्धात्वर्थावच्छेदे भिन्नधात्वर्थावच्छिन्नतया विधेर्भेदादित्यर्थः । शब्दान्तराधिकरणं तु सर्ववेदान्तप्रत्ययाधिकरणेऽनुक्रान्तम् ।

सौत्रमादिशब्दं व्याकरोति -

अादीति ।

गुणादयोऽपीत्यादिग्रहणेन संयोगरूपसमाख्यादयो गृह्यन्ते । तत्तत्प्रकरणोक्तगुणजातविशिष्टोपास्यरूपभेदात्प्रतिविद्यं फलभेदान्नामधेयभेदात्कौण्डपायिवत्कृत्स्नोपसंहारस्याशक्यानुष्ठानत्वाच्च विद्यानानात्वमित्यर्थः ।

सत्यपि शब्दभेदेऽनुबन्धभेदाभावान्न विद्या भिन्नेति शब्दभेदमाक्षिपति -

नन्विति ।

वेदोपासीतेत्यादिशब्दानां क्वचिज्ज्ञानं क्वचिद्ध्यानमित्यर्थभेदमाशङ्क्य ज्ञानस्याविधेयत्वाद्विधीयमानमुपासनभेवेत्याह -

अर्थान्तरेति ।

अनुबन्धभेदाभावे फलितमाह -

तदिति ।

क्रियात्वाविशेषेऽपि यागदानहोमानामवान्तरभेदवद्वेदोपासीतेत्यादीनां मनोवृत्तित्वाविशेषेऽपि तत्तत्प्रकरणेषूत्पत्तिशिष्टतत्तद्गुणविशिष्टवेद्यरूपभेदाद्विशिष्टोपास्त्यनुबन्धो भिद्यत इत्याह -

नेत्यादिना ।

गुणानामपि ब्रह्मोपाधौ व्यवस्थानान्नानुबन्धभेद इत्याशङ्क्य वस्तुनिष्ठत्वाभावादुपास्तिवाक्यानां तत्तत्फलाय क्वचित्केनचिद्गुणेन विशिष्टब्रह्मोपास्तिविधेरनुबन्धभेदः स्यादित्यभिप्रेत्याह -

एकस्यापीति ।

ब्रह्मण्युक्तं न्यायं प्राणेऽपि दर्शयति -

तथेति ।

प्रतिप्रकरणं गुणभेदोक्तौ फलितमाह -

एवमिति ।

यत्तु श्रुतिनानात्वं गुणान्तरपरमिति तद्दूषयति -

नचेति ।

गुणान्तरविधिपरत्वे वाऽप्राप्तानेकगुणपरतया वाक्यभेदान्न युक्तेयं व्यवस्थेति दोषान्तरमाह -

अनेकत्वाच्चेति ।

विद्यैक्ये सत्येकत्रोक्तानां गुणानामन्यत्रोक्तिरयुक्ता पौनरुक्त्यात् । विद्याभेदे तु नैवं विद्यान्तरस्यापि तद्गुणत्वाय पुनरुक्तिसम्भवादतोऽपि विद्यानानात्वमित्याह -

नचेति ।

तत्रैव हेत्वन्तरमाह -

प्रतीति ।

सर्वेषु लोकेषु कामचारो भवति सर्वेष्वात्मस्वन्नमत्ति जयतीमाँल्लोकानित्यादिफलसंयोगभेदादाकाङ्क्षाभावादेकवाक्यत्वायोगाद्विद्यानानात्वमित्यर्थः । यत्तु पूर्वन्यायेन समस्तेपास्तेर्ज्यायस्त्वमुक्तं तत्प्रत्याह -

नचेति ।

अत्रेति शाण्डिल्यादिविद्योक्तिः । यत्तु वेद्यैक्याद्विद्यैक्यमिति, तत्राह -

वेद्येति ।

सर्वगुणानुपसंहृत्य प्रत्ययकर्तुरधिकारिणोऽसम्भवान्न विद्यैक्यमित्यर्थः ।

शब्दादिभेदकृतं विद्याभेदमुपसंहरति -

तस्मादिति ।

शब्दादिभेदाद्विद्याभेदे सति कथं सर्ववेदान्तप्रत्यायाधिकरणे विद्यैक्यमुक्तं, तत्राह -

स्थिते चेति ।

शब्दादिभेदाद्विद्याभेदे सिद्धे सति सर्वशाखागततत्तद्ब्रह्मज्ञानं प्राणदानं च भिन्नमेवेति शङ्किते सर्ववेदान्तर्गतं तद्विज्ञानमेकमित्युक्तमतोऽस्याधिकरणस्य पादादावेवार्थिकी सङ्गतिरत्र तु प्रसङ्गादुक्तमित्यर्थः ॥ ५८ ॥