ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
स्थिते विद्याभेदे विचार्यतेकिमासामिच्छया समुच्चयो विकल्पो वा स्यात् , अथवा विकल्प एव नियमेनेतितत्र स्थितत्वात् तावद्विद्याभेदस्य समुच्चयनियमे किञ्चित्कारणमस्तिननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यतेनैष दोषःनित्यताश्रुतिर्हि तत्र कारणम्नैवं विद्यानां काचिन्नित्यताश्रुतिरस्तितस्मान्न समुच्चयनियमःनापि विकल्पनियमः, विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात्पारिशेष्यात् याथाकाम्यमापद्यतेननु अविशिष्टफलत्वादासां विकल्पो न्याय्यःतथा हिमनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ५) सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । १ । ५) इत्येवमाद्याः तुल्यवत् ईश्वरप्राप्तिफला लक्ष्यन्तेनैष दोषःसमानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात्तस्मात् याथाकाम्यप्राप्तौ, उच्यतेविकल्प एव आसां भवितुमर्हति, समुच्चयःकस्मात् ? अविशिष्टफलत्वात्अविशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम्एकेन उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ, द्वितीय मनर्थकम्अपि असम्भव एव साक्षात्करणस्य समुच्चयपक्षे, चित्तविक्षेपहेतुत्वात्साक्षात्करणसाध्यं विद्याफलं दर्शयन्ति श्रुतयःयस्य स्यादद्धा विचिकित्सास्ति’ (छा. उ. ३ । १४ । ४) इति, देवो भूत्वा देवानप्येति’ (बृ. उ. ४ । १ । २) इति एवमाद्याःस्मृतयश्चसदा तद्भावभावितः’ (भ. गी. ८ । ६) इत्येवमाद्याःतस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात् , यावदुपास्यविषयसाक्षात्करणेन तत्फलप्राप्तिरिति ॥ ५९ ॥

विद्याभेदमुक्त्वा तदनुष्ठानभेदं वदन्नादावहङ्ग्रहोपास्तीनामनुष्ठानप्रकारमाह -

विकल्प इति ।

अहङ्ग्रहोपासनान्यधिकृत्य यथाकाम्यविकल्पयोर्विद्यानानात्वसाम्यादधिकरणसङ्गतिगर्भं संशयमाह -

स्थित इति ।

अहङ्ग्रहोपास्तीनां विकल्पेनानुष्ठानोक्त्या वाक्यार्थधीहेतोरेवोक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे स्वेच्छया प्रवृत्तेरनुष्ठानानियमः ।

सिद्धान्ते व्रीह्यादिष्विव तन्नियतिरिति मत्वा याथाकाम्येनानुष्ठानमिति पूर्वपक्षयिष्यन्नादौ समुच्चयनियमं निरस्यति -

तत्रेति ।

उपासनानां भिन्नत्वेऽपि समुच्चयनियमे नियमो युक्तो नित्याग्निहोत्रदर्शपूर्णमासादिवदिति शङ्कते -

नन्विति ।

उपास्तीनां काम्यत्वान्मैवमित्याह -

नेत्यादिना ।

अग्निहोत्रादिषु समुच्चयस्तत्रेत्युक्तः । तर्हि किमिति विकल्पनियमो नाश्रीयते, तत्राह -

नापीति ।

समुच्चयविकल्पयोर्नियमायोगादिच्छयान्यतरोऽङ्गीकर्तव्य इत्याह -

पारिशेष्यादिति ।

यथा व्रीहिभिरेव पुरोडाशे सिद्धे यवा न समुच्चीयन्ते कृतकरणत्वप्रसङ्गात् ।

तथात्रापि ब्रह्मप्राप्तिफलमविशिष्टं तदेकेनैवोपासनेन कृतं चेन्नावकाशः समुच्चयस्येति शङ्कते -

नन्विति ।

तदेवाविशिष्टफलत्वं स्पष्टयति -

तथाहीति ।

काम्यदर्शपूर्णमासज्योतिष्टोमादिवत्फलभूमार्थिनः समुच्चयः स्यादित्याह -

नेत्यादिना ।

विकल्पसमुच्चयनियमनिवृत्तिफलमुपसंहृत्य सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते -

तस्मादित्यादिना ।

उक्तेऽर्थे प्रश्नपूर्वकं हेतुमादाय व्याचष्टे -

कस्मादित्यादिना ।

ध्येयसाक्षात्कारार्थमेव समुच्चयाङ्गीकारे का क्षतिः, तत्राह -

एकेनेति ।

अभीष्टफलघातित्वाच्च समुच्चयोऽत्र नास्तीत्याह -

अपिचेति ।

उपास्तेरदृष्टद्वारा यागादिवत्फलोपायत्वोपपत्तेरुपास्यसाक्षात्कारापेक्षैव नास्तीत्याशङ्क्याहङ्ग्रहोपास्तीनां साक्षात्कारसाध्यफलं तथाश्रुतेरित्याह -

साक्षादिति ।

यस्योपासकस्याद्धा साक्षादुपास्यं स्यान्न विचिकित्सा संशयोऽस्ति प्राप्नुयामहं फलं न वेति तस्य ब्रह्माप्तिः स्यादित्यर्थः । देवो भूत्वा जीवन्नेव साक्षात्कारेण देवभावमनुभूय पतिते देहे देवानप्येति प्राप्नोतीत्यर्थः ।

ऩ चाविशिष्टफलत्वे फलभूमार्थिनः समुच्चयानुष्ठानमुपास्यसाक्षात्कारे तन्निमित्तं तत्प्राप्तौ च विशेषाभावादित्याशयेनोपसंहरति -

तस्मादिति ॥ ५९ ॥