ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम्यासु पुनः काम्यासु विद्यासु एतमेवं वायुं दिशां वत्सं वेद पुत्ररोदꣳ रोदिति’ (छा. उ. ३ । १५ । २) यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । १ । ५) इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु, साक्षात्करणापेक्षा नास्ति; ता यथाकामं समुच्चीयेरन् , वा समुच्चीयेरन्पूर्वहेत्वभावात्पूर्वस्य अविशिष्टफलत्वादित्यस्य विकल्पहेतोः अभावात् ॥ ६० ॥

अहङ्ग्रहोपास्तीनामनुष्ठानप्रकारमुक्त्वा प्रतीकोपास्तीनां तत्प्रकारमाह -

काम्यास्त्विति ।

अनहङ्ग्रहाण्यकर्माङ्गावबद्धानि च मनो ब्रह्मेत्युपासीतेत्येवमादीन्यभ्युदयफलान्युपासनानि विषयस्तेषु किं विकल्पनियमो याथाकाम्यं वेत्युभयोपपत्त्या संशये प्रतीकोपास्तीनामुपास्तित्वादहङ्ग्रहोपास्तिवद्विकल्पनियमे प्राप्ते तद्वैपरीत्यमाह -

अविशिष्टेति ।

अत्र प्रतीकोपास्तिषु पूर्ववैरीत्येनानुष्ठानस्य याथाकाम्योक्त्या वाक्यार्थधीहेतोरेव कथनात्पादादिसङ्गतिः । पूर्वपक्षे व्रीह्यादिष्विवानुष्ठाननियमसिद्धिः ।

सिद्धान्ते फलवशादतन्नियतिरित्यङ्गीकृत्य सूत्राक्षराणि योजयति -

यास्विति ।

स यः कश्चिदेतं वायुं दिशां गोत्वेन कल्पितानां वत्सं वेद नासौ पुत्रमरणनिमित्तं रोदं रोदनं रोदिति लभते किन्तु नित्यमवियुक्तवत्सादिगुणोपासनाज्जीवत्पुत्रो भवतीत्यर्थः ।

अहङ्ग्रहोपास्तिपु साक्षात्कारसाधनत्वमुपाधिरिति मत्वा विशिनष्टि -

साक्षादिति ।

विमतान्युपासनानि यथाकाम्येनानुष्ठेयान्यविरुद्धभिन्नफलत्वाच्चित्राज्योतिष्टोमादिवदिति भावः ॥ ६० ॥