ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः, किं ते समुच्चीयेरन् , किं वा यथाकामं स्युरिति संशयेयथाश्रयभाव इत्याहयथैव एषामाश्रयाः स्तोत्रादयः सम्भूय भवन्ति, एवं प्रत्यया अपि, आश्रयतन्त्रत्वात्प्रत्ययानाम् ॥ ६१ ॥

प्रतीकोपास्तीनामनुष्ठानक्रममुक्त्वाऽङ्गावबद्धोपास्तीनां क्रमं निरूपयिष्यन्पूर्वपक्षमाह -

अङ्गेष्विति ।

अधिकरणस्य विषयं वक्तुमङ्गेष्विति पदं व्याचष्टे -

कर्मेति ।

तदाश्रितोपासनानि विषयत्वेन दर्शयति -

य इति ।

अङ्गद्वारा क्रतुसम्बन्धात्फलसंनिकर्षाच्च संशय इत्याह -

किं त इति ।

तन्निर्धारणानियमाधिकरणे पुरुषार्थत्वमङ्गोपास्तीनामुक्तमिह सत्यपि पुरुपार्थत्वे समुच्चये मानं नेत्युच्यते ।

अङ्गोपास्तीनामङ्गवत्समुच्चयनियमः किंवा प्रतीकदृष्टिवद्याथाकाम्यमिति संशयमनूद्य पूर्वाधिकरणवद्यथारुच्यनुष्ठानं नेति पूर्वपक्षयति -

इति संशय इति ।

अत्र चाङ्गोपास्तिषु यथारुच्यनुष्ठानोक्त्या वाक्यार्थधीसाधनस्यैव चिन्तनात्पादादिसङ्गतिः ।

पूर्वपक्षे समुच्चयानुष्ठानात्फलबाहुल्यसिद्धिः । सिद्धान्ते समुच्चयस्याप्रामाणिकत्वात्तथानुष्ठाने फलबाहुल्यायोगाद्यथारुच्यनुष्ठाने प्रवृत्तिसौकर्यमित्युपेत्य पूर्वपक्षसूत्रं योजयति -

यथेति ।

अङ्गाश्रितोपासनानि नियमेन क्रतौ समुच्चित्यानुष्ठेयानि नियमेन समुच्चीयमानाङ्गाश्रितत्वात्तदाश्रितोपाङ्गवदित्यर्थः ॥ ६१ ॥