ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
शिष्टेश्च ॥ ६२ ॥
यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एवमाश्रिता अपि प्रत्ययाःनोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां प्रत्ययानामित्यर्थः ॥ ६२ ॥

इतश्चाङ्गोपास्तीनां समुच्चित्यानुष्ठानमित्याह -

शिष्टेश्चेति ।

शिष्टिः शासनं विधानं तस्या विशेषाभावादङ्गानां प्रत्ययानां च समुच्चयनियम इत्यर्थः ।

सूत्रस्याक्षरोत्थमर्थमाह -

यथा वेति ।

तस्यैव तात्पर्यार्थमाह -

नेत्यादिना ॥ ६२ ॥