ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
समाहारात् ॥ ६३ ॥
होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति’ (छा. उ. १ । ५ । ५) इति प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधातिइति ब्रुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसम्बन्धसामान्यात् सर्ववेदोदितप्रत्ययोपसंहारं सूचयतिइति लिङ्गदर्शनम् ॥ ६३ ॥

इतश्चोपासनानि समुच्चित्यानुष्ठीयेरन्नित्याह -

समाहारादिति ।

समाहरणं समताकरणं क्षतस्य सन्धानं समाहारस्तस्माल्लिङ्गात्समुच्चयो गम्यते प्रत्यायानामिति योजना । यः प्रणवो बह्वृचानां स च्छन्दोगानामुद्गीथः ।

यश्च तेषामुद्गीथः स प्रणवोऽन्येषामिति प्रणवोद्गीथयोरेकत्वेन यदुपासनमुद्गात्रा कृतं तत्फलवादिवाक्यं सूत्रं व्याकर्तुमनुवदति -

होतृषदनादिति ।

होतुः सदनं स्थानं होता यत्रस्थः शंसति तद्धोतृषदनं तेन च हौत्रं कर्म लक्ष्यते । ततः सम्यगनुष्ठिताद्दुरुद्गीथं दुष्टं यदुद्गानं स्वरव्यञ्चनादिप्रमादादुद्गात्रा कृतं तदप्युद्गाता तेनैक्यविज्ञानेनानुसमाहरति प्रतिसन्दधात्येव क्षतमिव वैद्य इत्यर्थः ।

वाक्यस्याभीष्टमर्थं कथयति -

प्रणवेति ।

तथापि प्रकृते किमायातं तदाह -

इति ब्रुवन्निति ।

वेदद्वययुक्तप्रणवोद्गीथयोरैक्यज्ञानस्येदृशं फलं ब्रुवाणः सर्ववेदस्थानां प्रत्ययानां सर्वत्रोपसंहारं समुच्चयं सूचयति । सर्वोपासनेषु वेदान्तरोक्तप्रत्ययस्य वेदान्तरोक्तपदार्थेन सम्बन्धस्य समानत्वादिति योजना ॥ ६३ ॥