ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
विद्यागुणं च विद्याश्रयं सन्तम् ओंकारं वेदत्रयसाधारणं श्रावयति — ‘तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शꣳसत्योमित्युद्गायति’ (छा. उ. १ । १ । ९) इति च । ततश्च आश्रयसाधारण्यात् आश्रितसाधारण्यमिति — लिङ्गदर्शनमेव । अथवा गुणसाधारण्यश्रुतेश्चेति । यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः, न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः । ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते । ततश्च आश्रयसहभावात्प्रत्ययसहभाव इति ॥ ६४ ॥

ओंकारस्योपास्यस्य साधारण्यादप्युपासनानां साधारण्यं समुच्चित्यानुष्ठानमिति हेत्वन्तरमाह -

गुणेति ।

विद्यागुणमित्यस्य व्याख्या विद्याश्रयमिति । विद्योद्गीथविद्या । तेनेत्योङ्कारोक्तिः । त्रयी विद्या वेदत्रयविहितं कर्मेत्यर्थः ।

अन्वयमुखेन व्याख्यामुपसंहरति -

ततश्चेति ।

आश्रयसाधारण्ये सात्यश्रितसाधारण्यमन्वयस्तमेवाश्रयसाधारण्याभावे सत्याश्रितसाधारण्याभावरूपव्यतिरेकव्याख्यया द्रढयितुं सूत्रमादत्ते -

अथवेति ।

व्यतिरेकेण सूत्रं योजयति -

यदीति ।

उद्गीथादीनामपि तर्हि साधारण्यं मा भूत् , तत्राह -

ते त्विति ।

गुणेन सहैव गुणिनः प्रत्ययस्यागमनं सूच्यत इति फलितमाह -

ततश्चेति ॥ ६४ ॥