यस्मिन्नुपासने यस्याभिरुचिः स तदनुतिष्ठति सर्वोपासनसमुच्चये तु न मानमिति सिद्धान्तयति -
न वेति ।
तत्र वाकारार्थमाह -
नेत्यादिना ।
नञ्पदं व्याचष्टे -
न यथेति ।
प्रश्नपूर्वकमवशिष्टमादाय व्याकरोति -
कुत इति ।
नियमेन समुच्चीयमानाङ्गाश्रयत्वादित्युक्त्वाऽनुमानधिया शङ्कते -
नन्विति ।
विमतोपासनानि न क्रतौ समुच्चित्यानुष्ठेयानि, अङ्गाश्रितत्वे सति भिन्नफलत्वाद्गोदोहनादिवदिति मत्वाह -
नेतीति ।
उक्तमेव व्यक्तीकरोति -
प्रयोगेति ।
शिष्टेश्चेत्युक्तं विघटयति -
अयमेवेति ।
समाहाराद्गुणसाधारण्यश्रुतेश्चेत्येतद्दूषयति -
परं चेति ।
यदर्थवादसामर्थ्यं तदन्यतः प्राप्तस्यावद्योतकं न चेहोपासनानां समुच्चये प्रापकमस्तीत्यर्थः ।
गुणसाधारण्येत्यादौ व्यतिरेकव्याख्यानं प्रत्याह -
नचेति ।
उपासनानामाश्रयभावेऽपि सत्त्वाभावे कथमाश्रयतन्त्रत्वं, तत्राह -
आश्रयेति ।
इदमेवाश्रितानामाश्रयतन्त्रत्वं यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति कामानामनित्यत्वात्तदुपबन्धोपास्तीनामपि तथात्वान्नित्यसंयोगविरोधादित्यर्थः ।
अङ्गोपास्तीनामङ्गवदसमुच्चये प्रतीकदृष्टिवद्यथारुच्यनुष्ठानमित्युपसंहरति -
तस्मादिति ॥ ६५ ॥