ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
न वेति पक्षव्यावर्तनम् । न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति । कुतः ? तत्सहभावाश्रुतेः । यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते — ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति, स्तुतमनुशंसति, प्रस्तोतः साम गाय, होतरेतद्यज’ इत्यादिना । नैवमुपासनानां सहभावश्रुतिरस्ति । ननु प्रयोगवचन एषां सहभावं प्रापयेत् — नेति ब्रूमः, पुरुषार्थत्वादुपासनानाम् । प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत् । उद्गीथाद्युपासनानि क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचाम ‘पृथग्घ्यप्रतिबन्धः फलम्’ (ब्र. सू. ३ । ३ । ४२) इत्यत्र । अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् — यदेकेषां क्रत्वर्थत्वम् , एकेषां पुरुषार्थत्वमिति । परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य, श्रुतिन्यायाभावात् । न च प्रतिप्रयोगम् आश्रयकात्स्न्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् , अतत्प्रयुक्तत्वादुपासनानाम् — आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् । न त्वाश्रयसहभावेन सहभावनियममर्हन्ति, तत्सहभावाश्रुतेरेव । तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन् ॥ ६५ ॥

यस्मिन्नुपासने यस्याभिरुचिः स तदनुतिष्ठति सर्वोपासनसमुच्चये तु न मानमिति सिद्धान्तयति -

न वेति ।

तत्र वाकारार्थमाह -

नेत्यादिना ।

नञ्पदं व्याचष्टे -

न यथेति ।

प्रश्नपूर्वकमवशिष्टमादाय व्याकरोति -

कुत इति ।

नियमेन समुच्चीयमानाङ्गाश्रयत्वादित्युक्त्वाऽनुमानधिया शङ्कते -

नन्विति ।

विमतोपासनानि न क्रतौ समुच्चित्यानुष्ठेयानि, अङ्गाश्रितत्वे सति भिन्नफलत्वाद्गोदोहनादिवदिति मत्वाह -

नेतीति ।

उक्तमेव व्यक्तीकरोति -

प्रयोगेति ।

शिष्टेश्चेत्युक्तं विघटयति -

अयमेवेति ।

समाहाराद्गुणसाधारण्यश्रुतेश्चेत्येतद्दूषयति -

परं चेति ।

यदर्थवादसामर्थ्यं तदन्यतः प्राप्तस्यावद्योतकं न चेहोपासनानां समुच्चये प्रापकमस्तीत्यर्थः ।

गुणसाधारण्येत्यादौ व्यतिरेकव्याख्यानं प्रत्याह -

नचेति ।

उपासनानामाश्रयभावेऽपि सत्त्वाभावे कथमाश्रयतन्त्रत्वं, तत्राह -

आश्रयेति ।

इदमेवाश्रितानामाश्रयतन्त्रत्वं यदाश्रये सत्येव वृत्तिर्नासतीति । न तु तत्र वृत्तिरेव नावृत्तिरिति कामानामनित्यत्वात्तदुपबन्धोपास्तीनामपि तथात्वान्नित्यसंयोगविरोधादित्यर्थः ।

अङ्गोपास्तीनामङ्गवदसमुच्चये प्रतीकदृष्टिवद्यथारुच्यनुष्ठानमित्युपसंहरति -

तस्मादिति ॥ ६५ ॥