ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
दर्शनाच्च ॥ ६६ ॥
दर्शयति श्रुतिरसहभावं प्रत्ययानाम्एवंविद्ध वै ब्रह्मा यज्ञं यजमानꣳ सर्वाꣳश्चर्त्विजोऽभिरक्षति’ (छा. उ. ४ । १७ । १०) इतिसर्वप्रत्ययोपसंहारे हि, सर्वे सर्वविद इति विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां सङ्कीर्त्येततस्मात् यथाकाममुपासनानां समुच्चयो विकल्पो वेति ॥ ६६ ॥

किञ्च विदुषा ब्रह्मणाऽन्येषामृत्विजां पाल्यत्वोक्तेरपि न सर्वविज्ञानोपसंहारधीरित्याह -

दर्शनाच्चेति ।

सूत्रं त्रिभजते -

दर्शयतीति ।

ऋग्वेदादिविहिताङ्गलोपे व्याहृतिहोमप्रायश्चित्तादिविज्ञानवत्त्वमेवंवित्त्वं ब्रह्मणोऽमीष्टं कथं तावता विवक्षितानुपसंहारः, तत्राह -

सर्वेति ।

अस्ति च तेनेतरेषामृत्विजां पाल्यत्वकीर्तनं तेन प्रत्ययानुपसंहारधीरिति शेषः ।

अनुमानाल्लिङ्गाच्च सिद्धमर्थमुपसंहरति -

तस्मादिति ।

याथाकाम्यं व्याचष्टे -

समुच्चयो विकल्पो वेतीति ॥ ६६ ॥