ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अथात्र प्रत्यवतिष्ठते

पूर्वपक्षमवतारयति -

अथेति ।

सिद्धान्तोक्त्यनन्तरमात्मज्ञाने विषये फलश्रुतिमधिकृत्य मीमांसकश्चोदयतीत्यर्थः । पुरुषार्थवाद इत्यत्रार्थग्रहणं तन्त्रेणोपात्तं तेन पुरुषार्थार्थवाद इति द्रष्टव्यम् ।