ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तच्छ्रुतेः ॥ ४ ॥
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ (छा. उ. १ । १ । १०) इति कर्मशेषत्वश्रवणात् विद्याया केवलायाः पुरुषार्थहेतुत्वम् ॥ ४ ॥

न केवलं विद्याया लिङ्गादेव कर्माङ्गत्वं किन्तु तृतीयाश्रुतेरपीत्याह -

तदिति ।

सूत्रार्थं विवृणोति -

यदेवेति ॥ ४ ॥