ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
समन्वारम्भणात् ॥ ५ ॥
तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) इति विद्याकर्मणोः फलारम्भे साहित्यदर्शनात् स्वातन्त्र्यं विद्यायाः ॥ ५ ॥

इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -

समन्वारम्भणादिति ।

सूत्रं विवृणोति -

तमित्यादिना ।

तं परलोकं व्रजन्तं विद्यकर्मणी समनुगच्छत इति यावत् ॥ ५ ॥