ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तद्वतो विधानात् ॥ ६ ॥
आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानः’ (छा. उ. ८ । १५ । १) इति एवंजातीयका श्रुतिः समस्तवेदार्थविज्ञानवतः कर्माधिकारं दर्शयतितस्मादपि विज्ञानस्य स्वातन्त्र्येण फलहेतुत्वम्ननु अत्रअधीत्यइत्यध्ययनमात्रं वेदस्य श्रूयते, अर्थविज्ञानम्नैष दोषःदृष्टार्थत्वात् वेदाध्ययनम् अर्थावबोधपर्यन्तमिति स्थितम् ॥ ६ ॥

तदस्वातन्त्र्ये लिङ्गान्तरमाह -

तद्वत इति ।

तद्व्याकरोति -

आचार्येति ।

तस्य कुलं गृहमुपनयनं कृत्वा तत्प्राप्त्यनन्तरं गुरोः शुश्रूषारूपं कर्म विधायातिशेषेण शिष्टेन कालेन यथाविधानं पवित्रपाणित्वप्रास्मुखत्वादिविधानमनतिक्रम्य वेदमधीत्यानन्तरमभिसमावृत्य व्रतविसर्गं कृत्वा दारानाहृत्य कुटुम्बे गार्हस्थ्ये स्थितः शुचौ देशे स्वाध्यायाध्ययनं कुर्वन्कर्मान्तराणि च विहितानि यथाशक्ति कुर्वाणो ब्रह्मलोकमभिसम्पद्यत इत्यर्थः ।

अध्ययनशब्दस्य यथाश्रुतमर्थं गृहीत्वा शङ्कते -

नन्विति ।

अध्ययनविधेरवघातादिविधिवद्दृष्टार्थत्वादर्थावबोधान्तो व्यापारोऽस्तीति प्रथमे तन्त्रे समर्थितमित्याह -

नेत्यादिना ॥ ६ ॥