ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
नियमाच्च ॥ ७ ॥
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाःएवं त्वयि नान्यथेतोऽस्ति कर्म लिप्यते नरे’ (ई. उ. २) इतितथाएतद्वै जरामर्यं सत्रं यदग्निहोत्रं जरया वा ह्येवास्मान्मुच्यते मृत्युना वा’ — इत्येवंजातीयकात् नियमादपि कर्मशेषत्वमेव विद्याया इति ॥ ७ ॥

इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -

नियमाच्चेति ।

नियमं विभजते -

कुर्वन्निति ।

इह देहे शतं समाः शतसङ्ख्याकान्संवत्सरान्यज्जिजीविषेत्तत्कर्माणि कुर्वन्नेवेति नियमविधिः । एवं त्वयि नरे वर्तमाने सत्यशुभं कर्म न लिप्यते तेन त्वं न लिप्यस इति यावत् । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः ।

नियमान्तरमाह -

तथेति ।

जरामर्थं जरामरणावधिकम् ।

तदेव विशदयति -

जरयेति ।

श्रुत्यादिभिरात्मधियः सिद्धे कर्माङ्गत्वे तत्फलेनैव फलवत्त्वमित्युपसंहर्तुमितीत्युक्तम् ॥ ७ ॥