इतश्च न स्वतन्त्रा विद्या पुमर्थहेतुरित्याह -
नियमाच्चेति ।
नियमं विभजते -
कुर्वन्निति ।
इह देहे शतं समाः शतसङ्ख्याकान्संवत्सरान्यज्जिजीविषेत्तत्कर्माणि कुर्वन्नेवेति नियमविधिः । एवं त्वयि नरे वर्तमाने सत्यशुभं कर्म न लिप्यते तेन त्वं न लिप्यस इति यावत् । इतः प्रकारादन्यथा प्रकारान्तरं नास्ति यतो न कर्मलेपः स्यादित्यर्थः ।
नियमान्तरमाह -
तथेति ।
जरामर्थं जरामरणावधिकम् ।
तदेव विशदयति -
जरयेति ।
श्रुत्यादिभिरात्मधियः सिद्धे कर्माङ्गत्वे तत्फलेनैव फलवत्त्वमित्युपसंहर्तुमितीत्युक्तम् ॥ ७ ॥