ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
विभागः शतवत् ॥ ११ ॥
यदप्युक्तम्तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्रत्युच्यतेविभागोऽत्र द्रष्टव्यःविद्या अन्यं पुरुषमन्वारभते, कर्म अन्यमितिशतवत्यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयतेपञ्चाशदेकस्मै पञ्चाशदपरस्मै, तद्वत् इदं समन्वारम्भवचनं मुमुक्षुविषयम्इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६) इति संसारिविषयत्वोपसंहारात् , अथाकामयमानः’ (बृ. उ. ४ । ४ । ६) इति मुमुक्षोः पृथगुपक्रमात्तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा परिगृह्यते, विशेषाभावात्कर्मापि विहितं प्रतिषिद्धं , यथाप्राप्तानुवादित्वात्एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते ॥ ११ ॥

परकीयं लिङ्गान्तरं दूषयति -

विभाग इति ।

चोद्यमनूद्योत्तरत्वेन सूत्रं व्याचष्टे -

यदपीत्यादिना ।

सामान्यश्रुतौ कथं विभागः स्यात्तत्र सदृष्टान्तमाह -

शतवदिति ।

समन्वारम्भवचनस्य मुमुक्षुविषयत्वमुपेत्य कर्मसाहित्येन तल्लिङ्गं विभागादित्युक्तम् ।

इदानीममुमुक्षुविषयत्वादविभागेऽपि न दूषणमित्याह -

नचेति ।

तस्यामुमुक्षुविषयत्वे हेत्वन्तरमाह -

अथेति ।

संसारिविषये तं विद्येत्यादिवाक्ये विद्याशब्दार्थमाह -

तत्रेति ।

उद्गीथादिविषया विद्या प्रतिषिद्धा च नग्नस्त्रीदर्शनादिरूपा ।

तथाभूतकर्मसाहचर्यादपि तथाविधैव विद्येत्याह -

कर्मापीति ।

प्रकृते वाक्येऽपि विद्याकर्मणोरविशेषोपादाने हेतुमाह -

यथेति ।

उक्तार्थवाक्यस्य संसारिविषयत्वे फलितमाह -

एवमिति ॥ ११ ॥