ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कामकारेण चैके ॥ १५ ॥
अपि एके विद्वांसः प्रत्यक्षीकृतविद्याफलाः सन्तः, तदवष्टम्भात् फलान्तरसाधनेषु प्रजादिषु प्रयोजनाभावं परामृशन्ति कामकारेणइति श्रुतिर्भवति वाजसनेयिनाम्एतद्ध स्म वै तत्पूर्वे विद्वांसः प्रजां कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोक इति’ (बृ. उ. ४ । ४ । २२)अनुभवारूढमेव विद्याफलं क्रियाफलवत् कालान्तरभाविइत्यसकृदवोचामअतोऽपि विद्यायाः कर्मशेषत्वं नापि तद्विषयायाः फलश्रुतेरयथार्थत्वं शक्यमाश्रयितुम् ॥ १५ ॥

पूर्वपक्षहेतूनेवमुन्मथ्य स्वपक्षे हेत्वन्तरमाह -

कामेति ।

इतश्च विद्याया न कर्माङ्गतेति चकारार्थमाह -

अपिचेति ।

स्वेच्छातः । कर्मसाधनप्रजादित्यागलिङ्गादपि विद्यायाः स्वातन्त्र्यमिति हेत्वन्तरमेव स्फोरयति -

एक इति ।

येषां नोऽस्माकमयमपरोक्षः सन्नात्मायं लोकः प्रत्यक्षं फलं ते वयं किं प्रजया करिष्याम इति निश्चित्याग्निहोत्रादि न हुतवन्त इत्यर्थः ।

मोक्षस्यादृष्टफलत्वात्कथं मुक्तत्वनिश्चयात्प्रजादित्यागसिद्धिः, तत्राह -

अनुभवेति ।

ब्रह्मधीर्न क्रतुप्रयोगविधिनादेया क्रत्वङ्गसम्बन्धित्वेऽपि फलान्तरयोगित्वाद्गोदोहनवदिति मत्वाह -

अतोऽपीति ॥ १५ ॥