ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावाय उदाहृताः, ते तत्प्रतिपादनाय प्रभवन्ति; यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते, विधिम्कुतः ? हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्तिअर्थान्तरपरत्वं एषु प्रत्येकमुपलभ्यते । ‘त्रयो धर्मस्कन्धाःइत्यत्र तावत्यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्तिइति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं सङ्कीर्त्य, आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयतेब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १) इतिननु परामर्शेऽपि आश्रमा गम्यन्ते एवसत्यं गम्यन्ते; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः, प्रत्यक्षश्रुतेःअतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वाननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् — ‘यज्ञोऽध्ययनं दानमिति प्रथमःइतिसत्यमेवम्; तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम्; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, चोदनार्थःअपि अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् — ‘वीरहा वा एष देवानां योऽग्निमुद्वासयतेआचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’ (तै. उ. १ । ११ । १)नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुःइत्येवमाद्यातथा ये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मु. उ. १ । २ । ११) इति देवयानोपदेशः, आश्रमान्तरोपदेशःसन्दिग्धं आश्रमान्तराभिधानम्तप एव द्वितीयः’ (छा. उ. २ । २३ । १) इत्येवमादिषुतथा एतमे प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इति लोकसंस्तवोऽयम् , पारिव्राज्यविधिःननुब्रह्मचर्यादेव प्रव्रजेत्इति विस्पष्टमिदं प्रत्यक्षं पारिव्राज्यविधानं जाबालानाम्सत्यमेवमेतत्; अनपेक्ष्य तु एतां श्रुतिम् अयं विचार इति द्रष्टव्यम् ॥ १८ ॥

पूर्वाधिकरणावान्तरसूत्रेणाक्षेपलक्षणां सङ्गतिं विवक्षन्नाक्षिपति -

परामर्शमिति ।

ऊर्ध्वरेतःशब्दितं पारिव्राज्यं नानुष्ठेयमनुष्ठेयं वेति भ्रान्तिप्रमाणमूलत्वाभ्यां सन्देहे पूर्वपक्षयति -

त्रय इति ।

अत्र शास्त्रीयसम्यग्ज्ञानस्यान्तरङ्गसाधनप्रसङ्गादनुष्ठेयमुच्यत इति स्फुटा पादादिसङ्गतिः । पूर्वपक्षे पारिव्राजके विद्याप्रसिद्धेर्विभ्रमत्वात्तस्या न स्वातन्त्र्यसिद्धिः ।

सिद्धान्ते तस्यास्तत्र प्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य परामर्शं जैमिनिरिति व्याख्याय हेत्वाकाङ्क्षायामचोदनेति हेतुत्वेन व्याचष्टे -

कुत इति ।

पूपा प्रपिष्टभाग इतिवत्कल्प्यतां विधिरित्याशङ्क्य ब्रह्मसंस्थतादिविधिपरत्वाद्वाक्यजातस्य नैवमिति चशब्दार्थमाह -

अर्थान्तरेति ।

तत्र ब्रह्मसंस्थतादिविधिपरत्वं त्रय इत्यादिवाक्यस्य साधयति -

त्रय इत्यादिना ।

अन्यत्र विहितस्यान्यत्र परामर्शादन्यत्र विधिकल्पनादिहैव कल्पना लघ्वीत्याशङ्कते -

नन्विति ।

परामर्शस्यानुवादाख्यस्य पुरोवादापेक्षत्वात्तद्वशादाश्रमप्रतीतिमङ्गीकरोति -

सत्यमिति ।

तर्हि तद्विषयश्रुतेरन्यत्राश्रितत्वाद्गौरवमित्याशङ्क्याह -

स्मृतीति ।

तयोरपि श्रुतिमूलत्वाद्विधियुक्तश्रुतिकल्पनादिहैव तत्कल्पने लाघवमित्याशङ्क्याह -

अतश्चेति ।

प्रत्यक्षश्रुतियावज्जीवादिश्रुतिः ।

निरालम्बनत्वात्कथमपि सालम्बनत्वं युक्तमिति कल्पान्तरमाह -

अनधिकृतेति ।

येऽन्धादयो नित्यादिकर्मस्वनधिकृतास्तद्विषया आश्रमान्तरस्मृतयस्तदाचाराश्चेत्यर्थः ।

आश्रमान्तराणां परामर्शेऽपि गार्हस्थ्यवत्प्रामाणिकत्वसिद्धेरनुष्ठेयतेति शङ्कते -

नन्विति ।

परामर्शसाम्यमङ्गीकरोति -

सत्यमिति ।

तर्हि प्रामाणिकत्वेनानुष्ठेयत्वमपि तुल्यं स्यादित्याशङ्क्य न परामर्शमात्राद्गार्हस्थ्यसिद्धिः ।

अपि तु प्रत्यक्षश्रुतिविधानादिति विशेषमाह -

तथापीति ।

गार्हस्थ्यमेव श्रौतमिति स्थिते ब्रह्मसंस्थतास्तुत्यर्थमेव त्रय इत्याद्याश्रमान्तरवचनमित्युपसंहरति -

तस्मादिति ।

निन्द्यमानत्वाच्चाश्रमान्तरमननुष्ठेयमित्याह -

अपिचेति ।

तत्र सूत्रावयवं योजयति -

अपवदतीति ।

तत्र त्रय इत्यादिवाक्यस्यार्थत्वमुक्त्वा वाक्यान्तरमपि तद्वदेवार्थान्तरपरत्वमाह -

तथेति ।

तेऽर्चिषमभिसम्भवन्ति सूर्यद्वारेण ते विरजाः प्रयान्तीतिवाक्यशेषाद्देवयानोक्तिपरं तदित्यर्थः ।

आश्रमवाचकशब्दाभावाच्चार्थान्तरपरत्वमित्याह -

सन्दिग्धं चेति ।

प्रव्रजन्तीत्याश्रमवाचिशब्ददृष्टेरनुष्ठेयं पारिव्राज्यमित्याशङ्क्याह -

तथेति ।

एवंविशिष्टोऽयमात्मलोको यदेनं साक्षात्कर्तुमिच्छन्तो दुरनुष्ठेयामपि प्रवज्यां कुर्वन्तीति स्तुतिर्न तद्विषयो विधिर्वर्तमानापदेशादित्यर्तः ।

पूर्वपक्षमाक्षिपति -

नन्विति ।

प्रत्यक्षविधानमङ्गीकरोति -

सत्यमिति ।

तर्हि पूर्वपक्षसिद्धिरित्याशङ्क्य नास्तीदं विधानमितिकृत्वा चिन्तेयमित्याह -

अनपेक्ष्येति ॥ १८ ॥