सिद्धान्तसूत्रमवतार्य व्याकरोति -
अनुष्ठेयमिति ।
पूर्वपक्षमनुभाष्य तन्निरासप्रतिज्ञां विवृणोति -
वेद इति ।
तत्र प्रश्नपूर्वकं हेतुमाह -
कुत इति ।
तस्याक्षरार्थमाह -
समा हीति ।
तस्यैव तात्पर्यार्थमाह -
यथेति ।
त्रयो धर्मस्कन्धा इत्यत्रोर्ध्वरेतस आश्रमाः श्रुत्यन्तरप्रसिद्धा एव परामृश्यन्त एतद्वाक्यपरामृष्टत्वाद्गार्हस्थ्यवदित्यर्थः ।
परामर्शस्य विधिपूर्वकत्वे दृष्टान्तमाह -
यथेति ।
निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्यत्रोपवीतविधिपरे वाक्ये विध्यन्तरसिद्धयोरेव निवीतप्राचीनावीतयोर्यथा परामर्शस्तथात्रापीत्यक्षरार्थः । निवीतं मनुष्याणामित्यादिः दर्शपूर्णमासयोः श्रुतं तत्रोपवीतं विधीयत एवेतरयोस्तु विधिरर्थवादो वेति संशये सत्यपूर्वार्थलाभान्मनुष्यशब्दस्य च मनुष्यप्राधान्यवाचित्वादातिथ्ये कर्मणि निवीतं पित्र्ये च प्राचीनावीतमिति प्राप्ते मनुष्याणां क्रियासु सौकर्याय कण्ठलम्बिवस्त्रधारणस्य वा देहार्धबन्धनस्य वा निवीतस्य प्राप्तत्वात्प्राचीनावीतस्य च पितृयज्ञे वाक्यान्तरेण प्राप्तेस्तदनुवादेन निवीतमित्यादिरुपवीतं स्तोतुमर्थवाद इति प्राच्यां मीमांसायां स्थितम् । तस्यैव परामर्शश्रुतावपि त्रय इत्याद्यायां गार्हस्थ्यवदाश्रमान्तरमपि विहितमेवान्यत्र परामृश्यते तस्य विध्यपेक्षत्वादित्यर्थः ।
साम्यश्रुतिफलमाह -
तस्मादिति ।
त्रय इत्यत्राश्रमान्तरस्य गार्हस्थ्येन साम्यश्रुतिरुक्ता, सम्प्रति पारिव्राज्यवाक्येऽपि साम्यश्रुतिमाह -
तथेति ।
अस्येति पारिव्राज्योक्तिः । विधेयसाहित्यादस्यापि विधेयतेत्यर्थः ।
वाक्यान्तरेऽपि साम्यश्रुतिमाह -
ये चेति ।
अस्येति वानप्रस्थोक्तिः विधेयपञ्चाग्निविद्यया
तस्य सहोक्तिरस्ति तेन तद्वदेव वानप्रस्थमनुष्ठेयमित्यर्थः । परोक्तिमुद्भाव्य प्रत्याह -
यत्त्वित्यादिना ।
किं तन्निश्चयकारणं तदाह -
त्रय इति ।
स्कन्धशब्दस्य समूहवाचित्वेऽपि त्रित्वप्रतिज्ञा स्यादित्याशङ्क्याह -
नचेति ।
यजेत दद्यादित्याद्युत्पत्तिविधिभिन्नाः सन्तो बहवो धर्मा नाश्रमसम्बन्धमन्तरेण त्रित्वेऽन्तर्भावयितुं शक्यन्ते । यद्याश्रमपरः स्कन्धशब्दो न स्यान्न स्यात्ततो यज्ञादीनां त्रित्वं तेषामधिकृतत्वादतः स्कन्धशब्दस्य समूहार्थत्वायोगात्त्रित्वमेव स्कन्धानामाश्रमत्वनिश्चायकमित्यर्थः । कथं तर्हि तेषामाश्रमाणां विभागः, तत्राह -
तत्रेति ।
वाक्यान्तरेऽपि निश्चायकं दर्शयति -
ये चेति ।
परोक्तं निरस्य स्वमतमुपसंहरति -
तस्मादिति ॥ १९ ॥