ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यतेवेदेऽश्रवणादग्निहोत्रादीनां अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम्इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानःकुतः ? साम्यश्रुतेःसमा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्दृश्यतेत्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इत्याद्यायथा इह श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टम् , एवमाश्रमान्तरमपीति प्रतिपत्तव्यम्यथा शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयोः परामर्श उपवीतविधिपरे वाक्येतस्मात् तुल्यमनुष्ठेयत्वं गार्हस्थ्येन आश्रमान्तरस्यतथा एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४ । ४ । २२) इत्यस्य वेदानुवचनादिभिः समभिव्याहारःये चेमेऽरण्ये श्रद्धा तप इत्युपासते’ (छा. उ. ५ । १० । १) इत्यस्य पञ्चाग्निविद्ययायत्तूक्तम् — ‘तप एव द्वितीयःइत्यादिष्वाश्रमान्तराभिधानं सन्दिग्धमितिनैष दोषः, निश्चयकारणसद्भावात्त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १) इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसम्बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्तेतत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येतये चेमेऽरण्ये’ (छा. उ. ५ । १० । १) इति अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिःतस्मात् परमार्शेऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥

सिद्धान्तसूत्रमवतार्य व्याकरोति -

अनुष्ठेयमिति ।

पूर्वपक्षमनुभाष्य तन्निरासप्रतिज्ञां विवृणोति -

वेद इति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

तस्याक्षरार्थमाह -

समा हीति ।

तस्यैव तात्पर्यार्थमाह -

यथेति ।

त्रयो धर्मस्कन्धा इत्यत्रोर्ध्वरेतस आश्रमाः श्रुत्यन्तरप्रसिद्धा एव परामृश्यन्त एतद्वाक्यपरामृष्टत्वाद्गार्हस्थ्यवदित्यर्थः ।

परामर्शस्य विधिपूर्वकत्वे दृष्टान्तमाह -

यथेति ।

निवीतं मनुष्याणां प्राचीनावीतं पितॄणामुपवीतं देवानामुपव्ययते देवलक्ष्ममेव तत्कुरुत इत्यत्रोपवीतविधिपरे वाक्ये विध्यन्तरसिद्धयोरेव निवीतप्राचीनावीतयोर्यथा परामर्शस्तथात्रापीत्यक्षरार्थः । निवीतं मनुष्याणामित्यादिः दर्शपूर्णमासयोः श्रुतं तत्रोपवीतं विधीयत एवेतरयोस्तु विधिरर्थवादो वेति संशये सत्यपूर्वार्थलाभान्मनुष्यशब्दस्य च मनुष्यप्राधान्यवाचित्वादातिथ्ये कर्मणि निवीतं पित्र्ये च प्राचीनावीतमिति प्राप्ते मनुष्याणां क्रियासु सौकर्याय कण्ठलम्बिवस्त्रधारणस्य वा देहार्धबन्धनस्य वा निवीतस्य प्राप्तत्वात्प्राचीनावीतस्य च पितृयज्ञे वाक्यान्तरेण प्राप्तेस्तदनुवादेन निवीतमित्यादिरुपवीतं स्तोतुमर्थवाद इति प्राच्यां मीमांसायां स्थितम् । तस्यैव परामर्शश्रुतावपि त्रय इत्याद्यायां गार्हस्थ्यवदाश्रमान्तरमपि विहितमेवान्यत्र परामृश्यते तस्य विध्यपेक्षत्वादित्यर्थः ।

साम्यश्रुतिफलमाह -

तस्मादिति ।

त्रय इत्यत्राश्रमान्तरस्य गार्हस्थ्येन साम्यश्रुतिरुक्ता, सम्प्रति पारिव्राज्यवाक्येऽपि साम्यश्रुतिमाह -

तथेति ।

अस्येति पारिव्राज्योक्तिः । विधेयसाहित्यादस्यापि विधेयतेत्यर्थः ।

वाक्यान्तरेऽपि साम्यश्रुतिमाह -

ये चेति ।

अस्येति वानप्रस्थोक्तिः विधेयपञ्चाग्निविद्यया

तस्य सहोक्तिरस्ति तेन तद्वदेव वानप्रस्थमनुष्ठेयमित्यर्थः । परोक्तिमुद्भाव्य प्रत्याह -

यत्त्वित्यादिना ।

किं तन्निश्चयकारणं तदाह -

त्रय इति ।

स्कन्धशब्दस्य समूहवाचित्वेऽपि त्रित्वप्रतिज्ञा स्यादित्याशङ्क्याह -

नचेति ।

यजेत दद्यादित्याद्युत्पत्तिविधिभिन्नाः सन्तो बहवो धर्मा नाश्रमसम्बन्धमन्तरेण त्रित्वेऽन्तर्भावयितुं शक्यन्ते । यद्याश्रमपरः स्कन्धशब्दो न स्यान्न स्यात्ततो यज्ञादीनां त्रित्वं तेषामधिकृतत्वादतः स्कन्धशब्दस्य समूहार्थत्वायोगात्त्रित्वमेव स्कन्धानामाश्रमत्वनिश्चायकमित्यर्थः । कथं तर्हि तेषामाश्रमाणां विभागः, तत्राह -

तत्रेति ।

वाक्यान्तरेऽपि निश्चायकं दर्शयति -

ये चेति ।

परोक्तं निरस्य स्वमतमुपसंहरति -

तस्मादिति ॥ १९ ॥