ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
विधिर्वा धारणवत् ॥ २० ॥
विधिर्वा अयमाश्रमान्तरस्य, परामर्शमात्रम्ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येतप्रतीयते अत्र एकवाक्यतापुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेतिसत्यमेतत्; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपूर्वत्वात् , विध्यन्तरस्यादर्शनात् , विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेःधारणवत्यथाअधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतिइत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ, विधीयत एव उपरिधारणम् , अपूर्वत्वात्; तथा उक्तं शेषलक्षणे विधिस्तु धारणेऽपूर्वत्वात्’ (जै. सू. ३ । ४ । १५) इतितद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते

परामर्शमुपेत्यानुष्ठेयत्वमुक्तमिदानीं विधिरेवायमित्याह -

विधिर्वेति ।

प्रतिज्ञां विभजते -

विधिरिति ।

स्मृत्याचारयोराश्रमचतुष्टयनिविष्टयोर्भ्रान्तित्वायोगान्मूलकल्पनायां विधियुक्तवाक्यकल्पनाल्लघीयस्त्रय इत्यादिष्वाश्रमविधिकल्पमिति भावः । अल्पफलत्वेनाश्रमत्रयनिन्दया ब्रह्मसंस्थतास्तुतेरेकवाक्यत्वनिश्चयात्तद्भङ्गेनात्राश्रमविधिकल्पनमयुक्तमिति शङ्कते -

नन्विति ।

एकवाक्यताधीरेव कथं, तत्राह -

प्रतीयते चेति ।

एकवाक्यत्वसम्भवे तद्भेदो न युक्तिमानित्यङ्गीकरोति -

सत्यमिति ।

आश्रमाणां पूर्वसिद्धेरभावात्तत्परामर्शेन स्तुतेरयोगादेकवाक्यतैवात्रायुक्तेत्याह -

सतीमिति ।

किञ्च विधियुक्तवाक्यान्तरकल्पनायामाश्रमान्तराणां विहितत्वोपगमप्रसक्त्या स्वपक्षहानात्तत्कल्पनादिहैवाभीष्टे वाक्ये विधिमात्रकल्पना युक्तेत्याह -

विध्यन्तरस्येति ।

किञ्च मुख्यमाश्रमान्तरप्रत्ययं त्यक्त्वा स्तुतिलक्षणयैकवाक्यत्वकल्पनायोगाद्वाक्यभेदेन विधिरेवायमित्याह -

विस्पष्टाच्चेति ।

एकवाक्यताज्ञानेऽपि तत्त्यागेनापूर्वार्थविधौ दृष्टान्तमाह -

धारणवदिति ।

महापितृयज्ञे दिष्टङ्गताग्निहोत्रे च श्रुतं वाक्यमुदाहरति -

अधस्तादिति ।

उदाहरणव्याख्योपयोगित्वेन वाक्यस्याभीष्टमर्थमाह -

अत्रेति ।

प्रकृते कर्मविशेषे स्रुचि प्रक्षिप्तं हविराहवनीयं प्रति यदा नीयते तदा पित्र्ये होमे तस्य हविषोऽधस्तात्समिधं धारयन्ननुद्रवेदित्यधोधारणस्य विहितत्वादुपरि हीति तच्छेषानुवादतया तदेकवाक्यत्वसिद्धावुपरिष्टात्समिद्धारणस्यापूर्वत्वाद्दैवे होमे वाक्यभेदं कृत्वा तद्विधीयत इत्यर्थः ।

उक्तेऽर्थे तार्तीयं सूत्रमुदाहरति -

तथेति ।

उपरि हि देवेभ्यो धारयतीत्यत्रोपरिधारणं विधीयते न वेति सन्देहे धारयतीति वर्तमानोपदेशादुपरि हीति हिशब्दश्रुतेश्चोपरि समिधः प्राप्तेर्हविषश्चाभ्यर्हितद्रव्यत्वेन येन केनाच्छादनप्राप्तौ स्रुग्दण्डे समिधमुपसङ्गृह्यानुद्रवतीतिवाक्यान्तरप्राप्तसमिन्नियमनादयमनुवादो न विधिरिति प्राप्ते स्रुग्दण्डे समिधमुपसङ्गृह्येति हविषः प्राग्देशे समिद्धारणस्य प्राप्तत्वेऽपि तस्मादुपरि तद्धारणस्याप्राप्तेर्भङ्क्त्वा हिशब्दं पञ्चमलकारेण विधिरेवायमित्याह -

विधिस्त्विति ।

दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह -

तद्वदिति ।