परामर्शपक्षमेवावलम्ब्याश्रमाणां परामर्शेऽपि पारिव्राज्यस्य विधिरेष्टव्योऽन्यथा स्तुत्ययोगादित्याह -
यदेति ।
ब्रह्मसंस्थतया यत्स्तूयते तद्विधीयत इति न्यायाद्विधेयत्वेऽपि पारिव्राज्यस्य किं स्यादित्याशङ्क्य तदर्थं विचारमवतारयति -
सा चेति ।
पक्षद्वयस्य निर्बीजत्वान्नेदं विचार्यमित्याशङ्क्य परामर्शश्रुतौ परिव्राजकोऽपि परामृष्टो न वेति विकल्प्याद्यमनूद्य प्रथमपक्षप्राप्तिमाह -
यदीति ।
परामृष्टत्वाविशेषाच्चतुर्ष्वाश्रमेषु यः कश्चिद्ब्रह्मसंस्थो भविष्यतीति सम्बन्धः ।
ब्रह्मसंस्थोऽनाश्रमी कस्मान्न स्यादित्याशङ्क्यानाश्रमित्वस्य निन्द्यमानत्वादित्याह -
अनाश्रमित्वेति ।
द्वितीयमनूद्य द्वितीयपक्षप्राप्तिमाह -
अथेति ।
पक्षयोः सम्भावनया विचारारम्भमुक्त्वा पूर्वपक्षमाह -
तत्रेति ।
परिव्राजकस्यापि यमनियमादितपःसम्भवादित्यर्थः ।
आश्रमाणामेकैकशोऽसाधारणधर्मरूपदर्शनायोपक्रमात्तदनुसारेण चोपसंहारस्य युक्तत्वात्तपःशब्देन नोभयग्रहणमिति दूषयति -
तदिति ।
किं तर्हि युक्तं तदाह -
यथेति ।
कस्तर्हि तपःशब्दार्थः, तत्राह -
तपश्चेति ।
तेषां तत्प्रधानत्वेऽपि तपःशब्दस्य साधारण्यं किंं न स्यात् , तत्राह -
तपःशब्दस्येति ।
तस्य कृच्छ्रादौ रूढेरन्यत्र तदभावात्तेन वानप्रस्थ एव परामृश्यत इत्यर्थः ।
कथं तर्हि परिव्राजकधर्मेऽपि तपःशब्दप्रयोगः, तत्राह -
भिक्षोस्त्विति ।
इतश्च पूर्वं परिव्राजको नोक्त इत्याह -
चतुष्ट्वेनेति ।
नहि प्रसिद्धसङ्ख्याभेदेषु सङ्ख्यान्तरोक्तिर्युक्तेत्यर्थः ।
पृथगुक्तिसामर्थ्यादपि प्रकृताश्रमत्रयातिरिक्तो ब्रह्मसंस्थ इत्याह -
अपिचेति ।
भेदव्यपदेशेऽपि कथं पृथक्त्वं, तत्राह -
पृथक्त्वे चेति ।
सर्व एते पुण्यलोका इत्यत्र भिक्षुरपि परामृष्टश्चेत्तस्याब्रह्मसंस्थत्वाभावादमृतत्वमेवेति न पुण्यलोकत्वं विरोधात् । नच तपःशब्देन भिक्षोरपि ग्रहे तद्वर्जनं युक्तमेत इति प्रकृतानां कार्त्स्न्येन परामर्शात् । तस्माद्भेदोक्त्या पृथक्त्वमेवेत्यर्थः ।
अपृथक्त्वे भेदोक्तिरयुक्तेत्यत्र दृष्टान्तमाह -
नहीति ।
पृथक्त्वे तु तदुक्तिर्युक्तेत्याह -
भवतीति ।
न चावस्थाभेदापेक्षया दृष्टान्तदार्ष्टान्तिकयोः सिद्धिरपृथक्त्वेऽपीति वाच्यम् ।
सति कर्मित्वे मन्दप्रज्ञत्वे च ब्रह्मसंस्थताया महाप्रज्ञत्वस्य चायोगात्पृथक्त्वध्रौव्यादिति मत्वोपसंहरति -
तस्मादिति ।
किमेष ब्रह्मसंस्थशब्दो यौगिको रूढो वेति विकल्प्याद्ये न परिव्राजकमात्रविषयतेति शङ्कते -
कथमिति ।
द्वितीयं निराह -
रूढीति ।
यौगिकत्वमुपेत्य परिहरति -
अत्रेति ।
यथोक्तं ब्रह्मसंस्थत्वमन्येषामपि सिध्यतीत्याशङ्क्याह -
तच्चेति ।
तुल्यं संन्यासिनोऽपि स्वाश्रमकर्माननुष्ठाने प्रत्यावायित्वं तत्कुतोऽस्य ब्रह्मसंस्थत्वं, तत्राह -
परिव्राजकस्येति ।
तस्यापि शमदमाद्यनुष्ठेयमिति कुतो ब्रह्मसंस्थतेत्याशङ्क्याह -
शमेति ।
तत्र हेतुः -
ब्रह्मेति ।
शमादेर्ब्रह्मसंस्थताङ्गत्वान्न तद्विरोधितेत्यर्थः ।
गृहस्थादीनामपि ब्रह्मसंस्थितत्वाविरोध्येव स्वाश्रमविहितं कर्मेत्याशङ्क्याह -
यज्ञेति ।
तानि हि रागाद्याक्षिप्तानि न च रागादिमतां ब्रह्मसंस्थतेति भावः ।
शमदमाद्युपेतं ब्रह्मनिष्ठत्वमेव संन्यासिनः स्वाश्रमकर्मेत्युक्तं तदकरणे तस्य प्रत्यवायित्वं त्वम्पदार्थविवेकायैवेति स्मृतेरित्याह -
तदिति ।
चकारादितरेषामपि तत्तदाश्रमकर्मातिक्रमे प्रत्यवायित्वमकुर्वन्विहितं कर्मेत्यादिस्मृतिरपि सूच्यते ।
संन्यासिनः सर्वकर्मत्यागेन ब्रह्मसंस्थत्वमेव स्वाश्रमकर्मेत्यत्र मानमाह -
तथाचेति ।
न्यासः संन्यासो ब्रह्मेति स्तूयते ।
तत्र हेतुमाह -
ब्रह्मा हीति ।
हिरण्यगर्भो हि श्रुतिस्मृतिषु परोऽभीष्टस्तथापि कथं सन्यासस्तदात्मकः, तत्राह -
परो हीति ।
तस्य परत्वे हेतुः -
ब्रह्मेति ।
तद्धीहेतुत्वात्परो यस्मादेष संन्यासस्तस्माद्ब्रह्मेत्यर्थः ।
तस्य परत्वं स्फोरयति -
तानीति ।
पूर्वोक्तानि सत्यादीनि प्रसिद्धानि तानि ज्ञानहीनान्यवराण्येतानि तपांसि निकृष्टत्वहेतुत्वान्न्यास एवैभ्योऽतिरिक्तः श्रेष्ठो ब्रह्मसंस्थताद्वाराऽमृतत्वहेतुत्वादित्यर्थः ।
तस्य कर्मान्तराभावे वाक्यान्तरमाह -
वेदान्तेति ।
शुद्धबुद्ध्या विरक्ताः संन्यासयोगाद्वेदान्तविज्ञानेन सुनिश्चितार्था मुच्यन्त इति वचनात्कर्मान्तराभावः संन्यासिनां भातीत्यर्थः । न कर्मणा न प्रजयेत्याद्या भूयस्यः श्रुतयोऽत्र सन्तीति वक्तुमादिपदम् । तस्मिन्ब्रह्मणि बुद्धिर्मनो येषां ते तथा तदेव ब्रह्मात्मा स्वरूपं येषां ते तदात्मानः ।
तत्रैव निश्चयेन स्थितिमाह -
तन्निष्टा इति ।
विषयान्तरपारवश्यं व्यावर्तयति -
तदिति ।
यथोक्तान्यपि कर्माणि परिहायेत्यादिस्मृतिसङ्ग्रहार्थमादिपदम् ।
उक्तश्रुतितात्पर्यमाह -
ब्रह्मेति ।
ब्रह्मसंस्थशब्दस्य परिव्राजके रूढिमुपेत्योपसंहरति -
तस्मादिति ।
यथा गृहस्थशब्दस्य यौगिकत्वे सत्यतिप्रसङ्गपरिहाराश्रमविशेषे रूढत्वेऽपि न गार्हस्थ्यमात्रात्पुण्यलोकाप्तिः किन्तु यथोक्ताग्निहोत्रादिकरणात् । तथा परिव्राजकस्यापि ब्रह्मसंस्थस्य वाक्यार्थसाक्षात्कारद्वारैव मुख्यममृतत्वमिति । कुतो ज्ञानानर्थक्यमित्यर्थः ।
एवमेकदेशिमतं प्रत्याख्याय ब्रह्मसंस्थशब्दस्य परिव्राजकविषयत्वे स्थिते संस्तवसामर्थ्याद्ब्रह्मसंस्थत्वं पारिव्राज्यमितरपरामर्शेऽपि विधेयमिति परमप्रकृतमुपसंहरति -
तदेवमिति ।
शिष्यबुद्धिविकासार्थं परामर्शश्रुतिमाश्रित्य कृत्वाचिन्तया विचारं कृत्वा कृत्वाचिन्तामुद्धाटयति -
अनपेक्ष्येति ।
यदि वेतरथेति ब्रह्मचर्ये स्थितस्यैव पारिव्राज्येच्छा गार्हस्थ्ये च वैराग्यं दैवयोगाद्यदि स्यादित्यर्थः ।
यत्त्वनधिकृतान्धादिविषयः संन्यासः स्यादिति, तत्राह -
नचेति ।
अविशेषश्रुतिरसति बाधके न विशेषे सङ्कोचमर्हतीत्यर्थः ।
इतश्चेदं वाक्यं नानधिकृतविषयमित्याह -
पृथगिति ।
अनधिकृतानां संन्यासस्येति शेषः । व्रती गोदानादिवेदव्रतवान् । अव्रती तद्विपरीतः । स्नातको गुरुकुलनिवृत्तिरूपस्नानानन्तरमपि गुरुशुश्रूषापरः । तद्विपरीतोऽस्नातकः । उत्सन्नाग्निर्मृतभार्यः पूर्वभेवाग्निपरिग्रहरहितो वा । परिव्रजेदिति कर्माधिकारप्रतिपत्तिहीनानामपि संन्यासस्य पृथगुक्तेर्न वाक्यमनधिकृतविषयमित्यर्थः ।
संन्यासविधेरनधिकृताविषयत्वे हेत्वन्तरमाह -
ब्रह्मेति ।
श्रवणादिद्वारा संन्यासस्य ब्रह्मज्ञानदार्ढ्यार्थत्वं प्रकरणादिसिद्धं तेन समर्थस्यैवाधिकारस्तस्मिन्नित्यर्थः ।
पारिव्राज्यस्य ब्रह्मधीदार्ढ्यार्थत्वे श्रुतिं प्रमाणयति -
तच्चेति ।
ब्रह्मभूयाय ब्रह्मभावाय तत्साक्षात्कारायेत्यर्थः ।
अन्तर्गर्भिताधिकरणार्थमुपसंहरति -
तस्मादिति ।
प्रामाणिकत्वं तच्छब्दार्थः ।
तेषां प्रमितत्वेनानुष्ठीयमानत्वेऽपि प्रकृते किं जातमित्याशङ्क्य प्रथमाधिकरणार्थं निगमयति -
सिद्धं चेति ॥ २० ॥