ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
भावशब्दाच्च ॥ २२ ॥
उद्गीथमुपासीत’ (छा. उ. १ । १ । १) सामोपासीत’ (छा. उ. २ । २ । १)अहमुक्थमस्मीति विद्यात्इत्यादयश्च विस्पष्टा विधिशब्दाः श्रूयन्तेते स्तुतिमात्रप्रयोजनतायां व्याहन्येरन्तथा न्यायविदां स्मरणम् — ‘कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्एतत्स्यात्सर्ववेदेषु नियतं विधिलक्षणम्इतिलिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्तिप्रतिप्रकरणं फलानि श्राव्यन्तेआपयिता वै कामानां भवति’ (छा. उ. १ । १ । ७) एष ह्येव कामागानस्येष्टे’ (छा. उ. १ । ७ । ९) कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’ (छा. उ. २ । २ । ३) इत्यादीनितस्मादप्युपासनविधानार्था उद्गीथादिश्रुतयः ॥ २२ ॥

न द्वितीय उपास्यविषयार्पणेन विध्यन्वययोगे लक्षणया स्तुत्यर्थत्वायोगादित्याह -

भावेति ।

संनिहितविधेर्वेिषयार्पणेनार्थवत्त्वे रसतमादिवादानां सम्भवति तदीस्तुतिपरत्वमपि तत्रायुक्तं स्तुत्यपेक्षया विषयार्पणस्यान्तरङ्गत्वात् ।

तत्र कर्माङ्गस्तुतिपरत्वं नेति किमु वक्तव्यमिति मन्वानो व्याचष्टे -

उद्गीथमिति ।

निमन्त्रणादिष्वपि लिङादिस्मरणात्कथमुपासीतेत्यादिशब्दस्य विधिपरतेत्याशङ्क्याह -

तथाचेति ।

धातूनामनेकत्वेऽपि ‘डुकृञ् करणे’ ‘भू सत्तायाम्’ ‘अस भुवि’ इति त्रीनेव धातून्भावनासामान्यवाचिनः सर्वव्याप्त्यर्थमुदाहरति -

कुर्यादिति ।

आक्षिप्तकर्तृका भावना कुर्यादित्युक्ता सैवाक्षिप्तकर्मिका क्रियेतेत्युदाहृता । सैव कर्तव्यमिति धात्वर्थोपसर्जनभूताऽभिहितेति भेदः । भवेदित्यत्रापि भूयेत भवितव्यमित्युदाहार्यम् ।

भवतेरस्तेश्चैकार्थ्येऽपि प्राप्त्याद्यर्थं भवति दृष्ट्वा पृथगस्तिमुदाहरति -

स्यादितीति ।

यथापूर्वमुदाहरणमिहापि द्रष्टव्यम् । पाठक्रममनुसृत्य पञ्चममित्युक्तम् ।

एतद्धात्वनुगतप्रत्ययैः सर्वभावनानुगतश्रेयःसाधनत्वरूपो विधिरुच्यते न तु प्रतिधातुप्रत्ययं च भावनाभेदोऽस्तीति मत्वाह -

एतदिति ।

कथं तर्हि निमन्त्रणादिषु लिङादिस्मरणं मिथोविरोधादित्याशङ्क्योत्सर्गतो वेदे विधिपरा लिङादयोऽपवादादन्यथात्वमित्यभिप्रेत्याह -

लिङादीति ।

उद्गीथादिश्रुतीनां स्तुत्यर्थत्वाभावे हेत्वन्तरं चकारसूचितमाह -

प्रतीति ।

फलभेदश्रवणमुपसंहरति -

तस्मादिति ।

पूर्वोक्तापूर्वत्वादिसमुच्चयार्थमपीत्युक्तम् ॥ २२ ॥