न द्वितीय उपास्यविषयार्पणेन विध्यन्वययोगे लक्षणया स्तुत्यर्थत्वायोगादित्याह -
भावेति ।
संनिहितविधेर्वेिषयार्पणेनार्थवत्त्वे रसतमादिवादानां सम्भवति तदीस्तुतिपरत्वमपि तत्रायुक्तं स्तुत्यपेक्षया विषयार्पणस्यान्तरङ्गत्वात् ।
तत्र कर्माङ्गस्तुतिपरत्वं नेति किमु वक्तव्यमिति मन्वानो व्याचष्टे -
उद्गीथमिति ।
निमन्त्रणादिष्वपि लिङादिस्मरणात्कथमुपासीतेत्यादिशब्दस्य विधिपरतेत्याशङ्क्याह -
तथाचेति ।
धातूनामनेकत्वेऽपि ‘डुकृञ् करणे’ ‘भू सत्तायाम्’ ‘अस भुवि’ इति त्रीनेव धातून्भावनासामान्यवाचिनः सर्वव्याप्त्यर्थमुदाहरति -
कुर्यादिति ।
आक्षिप्तकर्तृका भावना कुर्यादित्युक्ता सैवाक्षिप्तकर्मिका क्रियेतेत्युदाहृता । सैव कर्तव्यमिति धात्वर्थोपसर्जनभूताऽभिहितेति भेदः । भवेदित्यत्रापि भूयेत भवितव्यमित्युदाहार्यम् ।
भवतेरस्तेश्चैकार्थ्येऽपि प्राप्त्याद्यर्थं भवति दृष्ट्वा पृथगस्तिमुदाहरति -
स्यादितीति ।
यथापूर्वमुदाहरणमिहापि द्रष्टव्यम् । पाठक्रममनुसृत्य पञ्चममित्युक्तम् ।
एतद्धात्वनुगतप्रत्ययैः सर्वभावनानुगतश्रेयःसाधनत्वरूपो विधिरुच्यते न तु प्रतिधातुप्रत्ययं च भावनाभेदोऽस्तीति मत्वाह -
एतदिति ।
कथं तर्हि निमन्त्रणादिषु लिङादिस्मरणं मिथोविरोधादित्याशङ्क्योत्सर्गतो वेदे विधिपरा लिङादयोऽपवादादन्यथात्वमित्यभिप्रेत्याह -
लिङादीति ।
उद्गीथादिश्रुतीनां स्तुत्यर्थत्वाभावे हेत्वन्तरं चकारसूचितमाह -
प्रतीति ।
फलभेदश्रवणमुपसंहरति -
तस्मादिति ।
पूर्वोक्तापूर्वत्वादिसमुच्चयार्थमपीत्युक्तम् ॥ २२ ॥