ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
यदि कश्चिन्मन्येतयज्ञादीनां विद्यासाधनभावो न्याय्यः, विध्यभावात् । ‘यज्ञेन विविदिषन्तिइत्येवंजातीयका हि श्रुतिः अनुवादस्वरूपा विद्याभिष्टवपरा, यज्ञादिविधिपराइत्थं महाभागा विद्या, यत् यज्ञादिभिरेतामवाप्तुमिच्छन्तीतितथापि तु शमदमाद्युपेतः स्यात् विद्यार्थी, तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति’ (बृ. उ. ४ । ४ । २३) इति विद्यासाधनत्वेन शमदमादीनां विधानात् विहितानां अवश्यानुष्ठेयत्वात्ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, विधिः ; नेति ब्रूमः, ‘तस्मात्इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः । ‘पश्येत्इति माध्यन्दिना विस्पष्टमेव विधिमधीयतेतस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानियज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेवननु उक्तम्यज्ञादिभिर्विविदिषन्तीत्यत्र विधिरुपलभ्यत इतिसत्यमुक्तम्; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत । ‘तस्मात्पूषा प्रपिष्टभागोऽदन्तको हिइत्येवमादिषु अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य, पौष्णं पेषणं विकृतौ प्रतीयेत’ (शाब. भा. ३ । ३ । ३४)इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितःतथा उक्तम् विधिर्वा धारणवत्’ (ब्र. सू. ३ । ४ । २०) इतिस्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम्तस्माद्यज्ञादीनि शमदमादीनि यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानितत्रापिएवंवित्इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥

ज्ञानोत्पत्तौ बहिरङ्गमुक्त्वा तत्रैवान्तरङ्गमुपदिशति -

शमदमादीति ।

अत्र व्यावर्त्यां शङ्कामाह -

यदीति ।

विद्यास्तावकत्वेनापि सम्भवत्यर्थवत्त्वे वर्तमानताभङ्गेन विधिकल्पनमयुक्तं वाक्यभेदप्रसङ्गात् । अतः शब्दमात्रलभ्या विद्येति भावः ।

एवं तवाभिप्रायेऽपि हेत्वन्तरमवश्यमनुष्ठेयं न शब्दमात्रलभ्या विद्येति सूत्रयोजनया परिहरति -

तथापीति ।

विविदिषावाक्यतुल्यतया शमादिवाक्यस्य नास्ति विधिपरतेति शङ्कते -

नन्विति ।

यस्मादेवमात्मानं विदित्वा पापेन कर्मणा न लिप्यते तस्मादेवं विद्यार्थी शमाद्युपेतो भूत्वा विचारयेदिति गम्यते विधिरित्याह -

नेतीति ।

विध्यभावे तत्प्रशंसावैयर्थ्यादुक्तविधिसिद्धिरित्यर्थः ।

काण्वपाठे विधिमुक्त्वा माध्यन्दिनपाठे विध्यभावशङ्कापि नास्तीत्याह -

पश्येदिति चेति ।

विधिफलमाह -

तस्मादिति ।

यज्ञादीनामसाधनत्वशङ्कामापाततोऽभ्युपेत्य साधनान्तरापेक्षोक्ता ।

इदानीं तदसाधनत्वशङ्कापि न युक्तेत्याह -

यज्ञादीनीति ।

उक्तं स्मारयित्वा परिहरति -

नन्वित्यादिना ।

संयोगस्यापूर्वत्वमेव स्पष्टयति -

नहीति ।

सत्यपि महावाक्यैक्येऽनुष्ठानयोग्यापूर्वार्थविधिरवान्तरवाक्येन क्रियते न तत्र वाक्यभेदो दोष इत्यत्र पूर्वतन्त्रसंमतिमाह -

तस्मादिति ।

दर्शपूर्णमासयोः श्रुतं तस्मात्पूषेत्यादि । तत्र पूष्णः पिष्टद्रव्यसंवन्धः सामासिकः । नच पूषा देवता पिष्टभागो द्रव्यं दर्शपूर्णमासयोरस्ति तेन तदेकवाक्यतायोगात्कालत्रयास्पृष्टद्रव्यदेवतासम्बन्धस्याविनाभावेन यागविध्युपस्थापकत्वाद्व्यवहारसिद्धये विधिपदमध्याहृत्य प्रकरणादुत्कर्षेण पूषोद्देशेन पिष्टभागः कर्तव्य इति विकृतौ सम्बन्धः ‘पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ’ इत्यत्र विचारित इत्यर्थः ।

अवान्तरवाक्यभेेदेन सूत्रकृतापि स्वीकृतो विधिरित्याह -

तथाचेति ।

स्मृत्यनुसारेणाप्यवान्तरवाक्यस्य विधायकत्वं वाच्यमित्याह -

स्मृतिष्विति ।

कर्मणां ज्ञानोत्पत्तिहेतुत्वे श्रुतिस्मृतिन्यायसिद्धे फलितमाह -

तस्मादिति ।

यज्ञादीनामपि श्रुतिस्मृतिन्यायेभ्योऽनुष्ठेयत्वे शमादीनां तेभ्यो विशेषाभावाद्यावद्विद्योदयमविशेषेणानुष्ठानं स्यादित्याशङ्क्याह -

तत्रापीति ॥ २७ ॥