तस्यार्थवादत्वे हेत्वन्तरमाह -
अबाधाच्चेति ।
सामान्यशास्त्रविरोधान्न कल्प्यो विशेषविधिरित्युक्तम् ।
अधुना सामान्यशास्त्रं दर्शयन्सूत्रं योजयति -
एवंचेति ।
स्वस्थावस्थायां भक्ष्याभक्ष्यभेदे सतीति यावत् ॥ २९ ॥