आपदवस्थायामभक्ष्यभक्षणानुज्ञाने स्मृति संवादयति -
अपीति ।
स्मृतिरपि विद्वद्विषयेत्याशङ्क्याह -
अपिचेति ।
सुरापानमवस्थाद्वयेऽपि न कार्यमित्याह -
तथेति ।
ब्राह्मणो वर्जयेदिति शेषः ।
जीवितात्ययस्मृत्या सुरापि तदत्यये पातव्येत्याशङ्क्याह -
सुरापस्येति ।
उष्णां सुरामिति शेषः । उष्णामग्निना तप्तामिति यावत् । मरणान्तिकप्रायश्चित्तदृष्टेस्तत्प्रसङ्गेऽपि सा न पातव्येत्यर्थः ।
इतश्च सा सदा न पेयेत्याह -
सुरापा इति ।
तत्र हेतुः -
अभक्ष्येति ।
मद्यमित्यादि स्मृतेस्तात्पर्यमाह -
वर्जनमिति ॥ ३० ॥