ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अपि च स्मर्यते ॥ ३० ॥
अपि आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेणजीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततःलिप्यते पापेन पद्मपत्रमिवाम्भसा’ (म.स्मृ. १० । १०४) इतितथा मद्यं नित्यं ब्राह्मणः’ (गौ॰ध॰सू॰ १-२-२५), सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः’ (गौ. ध. सू. ३ । ५ । १), ‘सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्इति स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥

आपदवस्थायामभक्ष्यभक्षणानुज्ञाने स्मृति संवादयति -

अपीति ।

स्मृतिरपि विद्वद्विषयेत्याशङ्क्याह -

अपिचेति ।

सुरापानमवस्थाद्वयेऽपि न कार्यमित्याह -

तथेति ।

ब्राह्मणो वर्जयेदिति शेषः ।

जीवितात्ययस्मृत्या सुरापि तदत्यये पातव्येत्याशङ्क्याह -

सुरापस्येति ।

उष्णां सुरामिति शेषः । उष्णामग्निना तप्तामिति यावत् । मरणान्तिकप्रायश्चित्तदृष्टेस्तत्प्रसङ्गेऽपि सा न पातव्येत्यर्थः ।

इतश्च सा सदा न पेयेत्याह -

सुरापा इति ।

तत्र हेतुः -

अभक्ष्येति ।

मद्यमित्यादि स्मृतेस्तात्पर्यमाह -

वर्जनमिति ॥ ३० ॥