ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
शब्दश्चातोऽकामकारे ॥ ३१ ॥
शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते — ‘तस्माद्ब्राह्मणः सुरां पिबेत्इतिसोऽपि वा एवंविदि’ (छा. उ. ५ । २ । १) इत्यस्यार्थवादत्वात् उपपन्नतरो भवतितस्मादेवंजातीयका अर्थवादा विधय इति ॥ ३१ ॥

स्मृतिप्रामाण्यार्थं तन्मूलश्रुतिमाह -

शब्दश्चेति ।

तस्माद्ब्रह्मणस्य सुरापस्य मरणान्तिकप्रायश्चित्तदर्शनादिति यावत् ।

श्रौतनिषेधस्य प्रकृतोपयोगमाह -

सोऽपीति ।

श्रुतिस्मृतिसिद्धमर्थमुपसंहरन्नतःशब्दं व्याचष्टे -

तस्मादिति ॥ ३१ ॥

सर्वान्नत्वोक्तिः शास्त्रान्तरविरोधे स्तुतिरित्युक्तम् ।