स्मृतिप्रामाण्यार्थं तन्मूलश्रुतिमाह -
शब्दश्चेति ।
तस्माद्ब्रह्मणस्य सुरापस्य मरणान्तिकप्रायश्चित्तदर्शनादिति यावत् ।
श्रौतनिषेधस्य प्रकृतोपयोगमाह -
सोऽपीति ।
श्रुतिस्मृतिसिद्धमर्थमुपसंहरन्नतःशब्दं व्याचष्टे -
तस्मादिति ॥ ३१ ॥
सर्वान्नत्वोक्तिः शास्त्रान्तरविरोधे स्तुतिरित्युक्तम् ।