ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
सर्वापेक्षा ’ (ब्र. सू. ३ । ४ । २६) इत्यत्र आश्रमकर्मणां विद्यासाधनत्वमवधारितम्; इदानीं तु किममुमुक्षोरप्याश्रममात्रनिष्ठस्य विद्यामकामयमानस्य तान्यनुष्ठेयानि, उताहो नेति चिन्त्यतेतत्र तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२) इत्यादिना आश्रमकर्मणां विद्यासाधनत्वेन विहितत्वात् विद्यामनिच्छतः फलान्तरं कामयमानस्य नित्यान्यननुष्ठेयानिअथ तस्याप्यनुष्ठेयानि, तर्हि एषां विद्यासाधनत्वम् , नित्यानित्यसंयोगविरोधात्इत्यस्यां प्राप्तौ, पठतिआश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘यावज्जीवमग्निहोत्रं जुहोतिइत्यादिना विहितत्वात्; हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥

एवं विद्यार्थत्वोक्तिर्यज्ञानां स्तुतिर्नित्यत्वश्रुतिविरोधादित्याशङ्क्याह -

विहितत्वाच्चेति ।

व्यवहितेन सम्बन्धमाह -

सर्वापेक्षेति

अग्निहोत्रादिकर्माण्यधिकृत्य विहितत्वाद्विनियुक्तविनियोगायोगाच्च संशयमाह -

इदानीं त्विति ।

अत्राग्निहोत्रादीनामुभयथात्वोक्त्या स्वतन्त्रपुमर्थहेतुशास्त्रोत्थात्मविद्योपायोपवर्णनात्पादादिसङ्गतिः । पूर्वपक्षे विद्याहेतुत्वोक्तेः स्तुतित्वाद्विविदिषावाक्यस्य विवक्षितार्थत्वासिद्धिः ।

सिद्धान्ते संयोगपृथक्त्वन्यायात्कर्मणामुभयत्वसम्भवात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -

तत्रेति ।

यावज्जीवश्रुतेरमुमुक्षोरपि तान्यनुष्ठेयानीत्याशङ्क्याह -

अथेति ।

विविदिषाश्रुतेर्विद्यासंयोगोऽपि तेषामवश्यम्भावीत्याशङ्क्याह -

नित्येति ।

आवश्यकत्वाभावाद्विद्याकामनायाः काम्यतया कर्मणामनावश्यकत्वं नित्यतया चावश्यकत्वमित्येकत्रैवावश्यकत्वानावश्यकत्वे विरुद्धे स्याताम् । अतो विद्योपायत्वोक्तिः स्तुतिरेवेत्यर्थः ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

अस्यामिति ।

नित्यतया विहितानां विद्यार्थतया विधानं गौरवादयुक्तमित्याशङ्क्याह -

नहीति ॥ ३२ ॥