नित्यत्वेऽपि विद्यासंयुक्तत्वमग्निहोत्रादीनां विधिवशादेष्टव्यमिति व्याचष्टे -
विद्येति ।
विविदिषासंयोगमात्रमत्र श्रुतं कुतो विद्यासंयुक्तत्वं, तत्राह -
तदुक्तमिति ।
सहकारित्वोक्त्या फलं प्रत्येवोपकारित्वमाचार्याभीष्टं कर्मणामित्याशङ्क्याह -
नचेति ।
शास्त्रीयमन्वयव्यतिरेकसिद्धं चोपकारकत्वम् ।
न चात्रोभयमस्तीत्याह -
अविधीति ।
ब्रह्मधीः स्वकार्ये न चोदितापेक्षाऽचोदितत्वान्मर्दनवदित्यर्थः ।
ब्रह्मधीः स्वफले नेतिकर्तव्यतापेक्षा स्वतोऽसाध्यफलत्वात्कूपखननव्यापारवदित्याह -
असाध्यत्वादिति ।
अविधिलक्षणत्वं व्यतिरेकोदाहरणेन प्रपञ्चयति -
विधीति ।
अङ्गभावस्य ग्राहकग्रहणपूर्वकत्वाद्विधेर्ग्राहकत्वाद्विहितं दर्शपूर्णमासादि प्रयाजादिभिर्ग्राहकगृहीतैरङ्गैर्युज्यते नाविहिता विद्येत्यर्थः ।
तथापि कथमसाध्यफलत्वेन विद्यायां कर्मणामन्वयराहित्यं तदाह -
तथाचेति ।
कथं तर्हि सहकारित्ववचनं तदाह -
तस्मादिति ।
सह पुत्रैर्भारं वहति गर्दभीतिवत्कर्मसु सत्स्वेव विद्या स्वकार्याय व्याप्रियत इत्यभिप्रेत्य सहकारित्वोक्तिरित्यर्थः ।
परोक्तमुद्भाव्य प्रत्याह -
नचेति ।
संयोगभेदं विशदयति -
नित्यो हीति ।
तुल्यबलश्रुतिद्वयेन पृथगेव सम्बन्धविधिः संयोगमेदस्तस्मादुभयथात्वमविरुद्धमित्यर्थः ।
‘एकस्य तूभयत्वे संयोगपृथक्त्वम्’ इत्यत्रैतच्चिन्तितमित्युदाहरणेन दर्शयति -
यथेति ।
बैल्वो वा खादिरो वा पालाशो वेत्येको नित्यः संयोगस्तेन क्रत्वर्थस्य खादिरत्वस्य वीर्यकामस्येत्यपरः संयोगोऽनित्यस्तेन पुरुषार्थतेत्येकस्य खादिरत्वस्योभयार्थत्वे संयोगपृथक्त्वं हेतुस्तथा कर्मस्वभेदेऽपि संयोगभेदादुभयथात्वमित्यर्थः ॥ ३३ ॥