आश्रमकर्मणां विद्योपायत्वे सत्यनाश्रमकर्मणां नैवमिति मन्वानं प्रत्याह -
अन्तरेति ।
अनाश्रमिणो विधुरादीन्विषयीकृत्य तेषां कर्मित्वप्रसिद्धेर्निन्दाप्रसिद्धेश्च संशयमाह -
विधुरेति ।
अत्रानाश्रमकर्मणामुक्तविद्याहेतुत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे यथा विधुरकर्मणां विद्याहेतुत्वासिद्धिस्तथैवाश्रमकर्मणामपि विद्याहेतुत्वासिद्धिः ।
सिद्धन्ते त्वाश्रमित्वस्य ज्यायस्त्वात्तत्कर्मणां सुतरां तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षमाह -
नास्तीत्यादिना ।
विविदिषावाक्ये यज्ञादिषु प्रत्येकं करणविभक्तिश्रुतेराश्रमकर्माभावेऽपि वर्णमात्रधर्माणां दानादीनां सम्भवाद्विधुरादीनामपि विद्याधिकारः स्यादित्याशङ्क्य केवलवर्णधर्माणां विद्यासाधनत्वे सत्याश्रमकर्मणां वैयर्थ्यादनाश्रमिणामनधिकारो विद्यायामित्याह -
आश्रमेति ।
अनाश्रमकर्मणां न विद्याहेतुतेति पूर्वपक्षमनूद्य सिद्धान्तयति -
एवमिति ।
प्रतिज्ञां व्याकरोति -
अनाश्रमित्वेनेति ।
तद्दृष्टेरिति व्याचष्टे -
रैक्वेति ॥ ३६ ॥