ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
विधुरादीनां द्रव्यादिसम्पद्रहितानां अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं वा नास्तिइति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्याहेतुत्वावधारणात् , आश्रमकर्मासम्भवाच्चैतेषाम्इत्येवं प्राप्ते, इदमाहअन्तरा चापि तुअनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियतेकुतः ? तद्दृष्टेःरैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ ३६ ॥

आश्रमकर्मणां विद्योपायत्वे सत्यनाश्रमकर्मणां नैवमिति मन्वानं प्रत्याह -

अन्तरेति ।

अनाश्रमिणो विधुरादीन्विषयीकृत्य तेषां कर्मित्वप्रसिद्धेर्निन्दाप्रसिद्धेश्च संशयमाह -

विधुरेति ।

अत्रानाश्रमकर्मणामुक्तविद्याहेतुत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे यथा विधुरकर्मणां विद्याहेतुत्वासिद्धिस्तथैवाश्रमकर्मणामपि विद्याहेतुत्वासिद्धिः ।

सिद्धन्ते त्वाश्रमित्वस्य ज्यायस्त्वात्तत्कर्मणां सुतरां तत्सिद्धिरिति मन्वानः संशयमनूद्य पूर्वपक्षमाह -

नास्तीत्यादिना ।

विविदिषावाक्ये यज्ञादिषु प्रत्येकं करणविभक्तिश्रुतेराश्रमकर्माभावेऽपि वर्णमात्रधर्माणां दानादीनां सम्भवाद्विधुरादीनामपि विद्याधिकारः स्यादित्याशङ्क्य केवलवर्णधर्माणां विद्यासाधनत्वे सत्याश्रमकर्मणां वैयर्थ्यादनाश्रमिणामनधिकारो विद्यायामित्याह -

आश्रमेति ।

अनाश्रमकर्मणां न विद्याहेतुतेति पूर्वपक्षमनूद्य सिद्धान्तयति -

एवमिति ।

प्रतिज्ञां व्याकरोति -

अनाश्रमित्वेनेति ।

तद्दृष्टेरिति व्याचष्टे -

रैक्वेति ॥ ३६ ॥