ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम्का नु खलु प्राप्तिरिति, सा अभिधीयते

श्रुतिस्मृतिभ्यां सिद्धे सिद्धान्तेऽनन्तरसूत्रनिरस्यं चोद्यमाह -

नन्विति ।

जन्मान्तरकृतादपि कर्मणो रैक्वादीनां विद्यासम्भवाद्वर्णोपाधावुक्तात्कर्मणो विद्येत्यत्र श्रुतिस्मृत्योरनियामकत्वान्नियामकान्तरं वक्तव्यमित्यर्थः ।

आश्रमधर्माभावेऽपि वर्णधर्मविशेषैरनुगृहीता विद्योदेष्यतीति सूत्रेण समाधत्ते -

सेति ।

अविरुद्धैरनाश्रमित्वाविरोथिभिरिति यावत् । अत एव पुरुषमात्रसम्बन्धिभिरित्युक्तम् ।