ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् । तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते — तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? नियमातद्रूपाभावेभ्यः । तथा हि — ‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २ । २३ । १) इति, ‘अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’ इति, ‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’(म॰भा॰ १२-२३४-४) इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति । यथा च ‘ब्रह्मचर्यं समाप्य गृही भवेत्’ (जा. उ. ४) ‘ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इति च एवमादीनि आरोहरूपाणि वचांस्युपलभ्यन्ते, नैवं प्रत्यवरोहरूपाणि । न चैवमाचाराः शिष्टा विद्यन्ते । यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् — ‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३ । ३५) इति स्मरणात् , न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते । चोदनालक्षणत्वाद्धर्मस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥

अनाश्रमिणां कर्मापि विद्याहेतुश्चेदारूढपतितस्य पूर्वाश्रमं प्राप्तस्य धीपूर्वकं प्रच्युतस्य कर्म किमु वाच्यमित्याशङ्क्याह -

तद्भूतस्येति ।

वृत्तानुवादेन विषयं सूचयति -

सन्तीति ।

तानाश्रमान्प्राप्तस्य धीपूर्वं प्रच्युतस्य कर्म विषयस्तत्किं विद्याहेतुर्न वेति संशयं सिद्धवत्कृत्य तद्धेतुमाह -

तांस्त्विति ।

कथञ्चिद्रागाद्युद्रेकादित्यर्थः । सा मानवती न वेति संशयार्थः । ऊर्ध्वरेतसां बुद्धिपूर्वं प्रच्युतानां कर्म यथोक्तविद्याहेतुर्नेत्युक्त्या पादादिसङ्गतिः । पूर्वपक्षे पूर्वोक्ताश्रमित्वश्रैष्ठ्यासिद्धिः ।

सिद्धान्ते प्रच्युतेरप्रामाणिकत्वात्तत्सिद्धिरिति स्वीकृत्य पूर्वपक्षयति -

पूर्वेति ।

पूर्वाश्रमोक्तो यागादिधर्मः सुखेन शक्योऽनुष्ठातुमिति तच्चिकीर्षया रागद्वेषवशेन च प्रत्यवरोहोऽपि प्रामाणिकः स्यात्तथाचानाश्रमिकर्म निन्दितमपि यथा विद्यासाधनमुक्तं तथा प्रत्यवरूढस्यापि कर्म विद्याहेतुराश्रमावरोहोऽनुष्ठेयस्तदारोहावरोहयोरन्यतरत्वात्तदारोहवदित्यवरोहस्य प्रामाणिकत्वादित्यर्थः ।

सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

उत्तराश्रमं प्राप्तस्य पूर्वाश्रमप्राप्तिरप्रामाणिकीत्यत्र प्रश्नपूर्वकं हेतुत्रयमाह -

कुत इति ।

तत्र नियमं व्याचष्टे -

तथाहीति ।

अरण्यमित्येकान्तोपलक्षितमूर्ध्वरेतस्त्वं तदियाद्गच्छेदिति पदं शास्त्रमार्गस्ततस्तस्मादरण्यान्न पुनरेयात्पुनर्नागच्छेन्न प्रत्यवरोहेदित्युपनिषद्रहस्यमित्यर्थः ।

स्मार्तमपि नियमं कथयति -

आचार्येणेति ।

उक्तनियमतात्पर्यमाह -

एवमिति ।

अतद्रूपमप्रत्यवरोहं व्याकरोति -

यथाचेति ।

अभावं शिष्टाचाराभावं व्याचष्टे -

नचेति ।

परोक्तमनुमानमनूद्य स्मृतिविरोधेन दूषयति -

यत्त्विति ।

इतश्चानुमानमयुक्तमित्याह -

न्यायाच्चेति ।

यत्तु रागादिवशात्प्रत्यवरोहणमिति, तत्राह -

नचेति ।

ततो न पुनरित्यादि नियमशास्त्रम् । अवशिष्टं सूत्रावयवं व्याचष्टे -

जैमिनेरिति ।

अत्रेति प्रामाणिकप्रच्युत्यभावोक्तिः । उभयसम्प्रतिपत्तिफलमाह -

प्रतिपत्तीति ॥ ४० ॥

प्रत्यवरोहणमशास्त्रीयमित्युक्तम् ।