ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते । यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात् । तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च । अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति, तेषां ‘ब्रह्मचार्यवकीर्णी’ इत्येतदविशेषश्रवणं मूलम् । तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे — ‘समा विप्रतिपत्तिः स्यात्’ (जै. सू. १ । ३ । ८) ‘शास्त्रस्था वा तन्निमित्तत्वात्’ (जै. सू. १ । ३ । ९) इति । प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि — ‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ,‘भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्च’(व॰ध॰ २१-३५,३६) इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम् ॥ ४२ ॥

सिद्धान्तयति -

उपपूर्वमिति ।

उपपदं पूर्वं यस्य पतनस्य तदुपपूर्वमिति व्याकरोति -

अपि त्विति ।

प्रायश्चित्ताभावं व्यावर्तयितुमपीति प्रयुक्तम् ।

एवकारार्थमाह -

नेति ।

नैष्ठिकव्रतलोपस्योपपातकत्वेऽपि प्रायश्चित्तसत्त्वे किं जातमित्याशङ्क्योपपातकसामान्यप्रायश्चित्तं स्यादिति सूत्रावयवं व्याकुर्वन्नाह -

तस्मादिति ।

उक्तमर्थं दृष्टान्तमवतार्य स्पष्टयति -

अशनवदिति ।

प्रायश्चित्तं न पश्यामीति स्मरणात्कथं तद्भावधीरित्याशङ्क्याह -

ये हीति ।

प्रायश्चित्तं नास्तीति स्मरणाभावान्न पश्यामीति दर्शनाभावमात्रस्मरणादित्यर्थः ।

भाववादिनामपि तुल्या मूलानुपलब्धिरित्यशङ्क्याह -

ये त्विति ।

ननु न पश्यामीति स्मरणस्य प्रायश्चित्तनिषेधार्थत्वमनुमाय तदर्थश्रुतिकल्पनात्तद्विरोधे सामान्यश्रुत्या प्रायश्चित्तसत्ता नाभ्युपगम्यते, तत्राह -

तस्मादिति ।

यावद्दर्शनाभावस्मरणस्य प्रायश्चित्तनिषेधार्थत्वकल्पनया तदर्था श्रुतिरनुमीयते तावदविशेषप्रवृत्ता प्रायश्चित्तं श्रुतिर्गमयतीति न स्मृत्या प्रायश्चित्ताभावधीरिति भावः ।

उक्तेऽर्थे यववराहाधिकरणसंमतिमाह -

तदुक्तमिति ।

यवमयश्चरुर्वाराही उपानहावित्यत्र यववराहशब्दाभ्यां प्रियङ्गुकृष्णशकुनिग्रहो वा दीर्घशूकसूकरग्रहो वेति सन्देहे पूर्वपक्षमाह -

समेति ।

केचिद्दीर्घशूके यवशब्दं प्रयुञ्जते प्रियङ्गुषु चापरे वराहशब्दमपि सूकरे केचिदाहुः कृष्णशकुनौ चान्ये तेन प्रयोगसाम्यात्समा तुल्या विकल्पेन प्रतिपत्तिः स्यादित्यर्थः ।

सिद्धान्तमाह -

शास्त्रस्था वेति ।

वाशब्दः पक्षव्यावृत्त्यर्थः । या शास्त्रमूला धीः सैव ग्राह्या शास्त्रनिमित्तत्वात्तद्धर्मादिज्ञानस्य । शास्त्रं च यदा वान्या ओषधयो म्लायन्त्यथैते मोदमानास्तिष्ठन्ति वराहं गावोऽनुधावन्तीति च यववराहशब्दयोर्दीर्घशूकसूकरविषयम् । तस्माद्धीसाम्याभावाद्विकल्पासिद्धेर्या शास्त्रमूला प्रसिद्धिः सैव ग्राह्येति प्रथमे सिद्धम् । तथात्रापि शास्त्रमूलत्वात्प्रायश्चित्तभावप्रसिद्धेस्तत्सत्त्वमुक्तमित्यर्थः ।

प्रायश्चित्तं न पश्यामीति स्मृतेस्तर्हि का गतिः, तत्राह -

प्रायश्चित्तेति ।

एवं सति सामान्यश्रुत्या प्रायश्चित्तसत्त्वे निश्चिते सतीत्यर्थः । यदि कथञ्चिन्नैष्ठिकस्य ब्रह्मचर्यं लुप्येत तदा न प्रायश्चित्तं दृश्यते तेन नैष्ठिकेन ब्रह्मचर्ये यत्नवता भाव्यमिति तद्विषययत्नस्याप्रमादेन सदाकार्यतारूपं गौरवमुत्पादयितुं प्रायश्चित्ताभावस्मरणमित्यर्थः ।

नैष्ठिके हि दर्शितन्यायमितरयोरतिदिशति -

एवमिति ।

विशेषतोऽपि प्रायश्चित्तविधेस्तयोरस्ति प्रामादिके व्रतलोपे प्रायश्चित्तमित्याह -

वानप्रस्थ इति ।

दीक्षाभेदे व्रतलोपे प्रमादतो ब्रह्मचर्यभङ्गे कृच्छ्रं चरित्वा महाकक्षं बहुतृणकाष्ठं देशं वर्धयेदिति सम्बन्धः ।

कृच्छ्रं विशिनष्टि -

द्वादशेति ।

दिनत्रयमेकवारभोजनं दिनत्रयं रात्रिभोजनं दिनत्रयमयाचितं दिनत्रयमुपवासकरणमित्येवंरूपमित्यर्थः ।

परिव्राजकेऽपि प्रमादतो व्रतलोपे तुल्यं कृच्छ्रानुष्ठानमित्याह -

भिक्षुरिति ।

सोमस्य यज्ञाङ्गत्वात्तदभिवृद्धिमनादृत्य महाकक्षं वर्धयेदित्याह -

सोमेति ।

‘सर्वपापप्रसक्तोऽपि ध्यायन्निमिषमच्युतम् । पुनः स पूतो भवति पङ्क्तिपावन एव च ॥ मनोवाक्कायजान्दोषांज्ञानोत्थांश्च प्रमादजान् । सर्वान्दहति योगाग्निस्तूलराशिमिवानलः ॥ उपपातकसङ्घेषु पातकेषु महत्सु च । प्रविश्य रजनीपादं ब्रह्मध्यानं समाचरेत् ॥ नित्यमेव तु कुर्वीत प्राणायामांस्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहःकृताः’ इत्यादि परिव्राजकविषयं शास्त्रं तेनाभिहितः संस्कारो ध्यानादिः स च कर्तव्यो भिक्षुणेत्याह -

स्वशास्त्रेति ।

ऊर्ध्वरेतसां प्रमादच्युतब्रह्मचर्याणां कृतप्रायश्चित्तानामधिकारोऽस्ति विद्यायामिति भावः ॥ ४२ ॥