कृतप्रायश्चित्तानामपि तेषां शिष्टाव्यवहार्यत्वमाह -
बहिस्त्विति ।
कृतप्रायश्चित्तैः सह शिष्टाचाररूपं कर्म विषयस्तत्किं विद्याङ्गं किंवा नेति संशये प्रागुक्तप्रायश्चित्तेनैव तेषां व्यवहार्यतासिद्धेरङ्गमिति प्राप्ते सिद्धान्तमाह -
यदीति ।
प्रतिज्ञार्थमुक्त्वा हेतुद्वयं व्याकरोति -
आरूढ इत्यादिना ।
दुश्चरिताचरणकृतमेनो लोकद्वयेऽपि कर्तुरशुद्धिमादधाति । तत्र प्रायश्चित्तेन लोकद्वयेऽपि कस्यचिदशुद्धिरपनीयते कस्यचित्तु पारलौकिकाशुद्धिरपाक्रियते ऐहिकाशुद्धिरनुवर्तते । उक्तं हि - ‘बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तृॄश्च स्त्रीहन्तॄंश्च न संवदेत्’ इति । तथेहापि ‘आरूढो नैष्ठिकम्’ इत्यादिस्मृतिलिङ्गादाचाराच्च परलोकाशुद्धेरपनीतत्वेऽप्यव्यवहार्यत्वावगमान्न तैर्व्यवहाररूपाचारस्य विद्याङ्गत्वम् । तदेवमुक्ताचारस्योक्तविद्यानङ्गत्वाभिधानात्प्रासङ्गिकी पादादिसङ्गतिः । पूर्वपक्षे ‘बालघ्नान्’ इत्यादिस्मृतिविरोधः । सिद्धन्ते तदानुगुण्यमिति भावः ॥ ४३ ॥