ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
तुशब्दो विशेषणार्थःकृत्स्नभावोऽस्य विशेष्यतेबहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि, आश्रमान्तरकर्माणि यथासम्भवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्तेतस्मात् गृहमेधिना उपसंहारो विरुध्यते ॥ ४८ ॥

सूत्रं व्याचष्टे -

तुशब्द इति ।

ननु यथा गृहिणो यज्ञादीनि कर्तव्यत्वेनोक्तानि तथाश्रमान्तराणामपि करणसंयमादिकर्मान्तराण्युच्यन्ते तथाच कोऽस्य विशेषः, तत्राह -

आश्रमान्तरेति ।

गृहमेधिनि विशेषे सिद्धे फलितमाह -

तस्मादिति ॥ ४८ ॥