ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
, वचनस्य गत्यन्तरसम्भवात्अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने, विध्यन्तरव्याघातकल्पना युक्ताप्रधानोपकाराय अङ्गं विधीयतेज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः सम्भाव्यतेतस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते; तदाहअनाविष्कुर्वन्नितिज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत्यथा बालः अप्ररूढेन्द्रियतया परेषाम् आत्मानमाविष्कर्तुमीहते, तद्वत्एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यतेतथा उक्तं स्मृतिकारैःयं सन्तं चासन्तं नाश्रुतं बहुश्रुतम् सुवृत्तं दुर्वृत्तं वेद कश्चित्स ब्राह्मणःगूढधर्माश्रितो विद्वानज्ञातचरितं चरेत्अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्’(व॰स्मृ॰ ६-४०,४१), अव्यक्तलिङ्गोऽव्यक्ताचारः’(व॰स्मृ॰ १०-१२) इति चैवमादि ॥ ५० ॥

विदुषो यथेष्टचेष्टा न विधेया शास्त्रान्तरविरोधादिति प्रतिजानीते -

नेति ।

सामान्यशास्त्रस्योक्तः सङ्कोचो बाल्येन तिष्ठासेदितिवचनादित्याशङ्‌क्याह -

वचनस्येति ।

सामान्यप्रवृत्तविधिशास्त्रविरुद्धेऽर्थे सम्भवति तद्विरुद्धार्थकल्पनायोगान्न कामचारादि विधेयमित्युक्तमेव व्यनक्ति -

अविरुद्धे हीति ।

इतश्च कामचारादि न विधेयमित्याह -

प्रधानेति ।

किं तत्प्रधानं यदङ्गत्वेन बाल्यादि विधीयते तदाह -

ज्ञानेति ।

उक्तप्रधानोपकारित्वाभावान्न कामचारादि विधेयमित्युक्तम् । तद्विरोधित्वाच्च तदविधेयमित्याह -

नचेति ।

किं तर्हि विधेयं बाल्यं तदाह -

तस्मादिति ।

इहेति प्रकृतवाक्योक्तिः ।

उक्तेऽर्थे सूत्रमादाय योजयति -

तदाहेति ।

कथं यथोक्तेऽर्थे बाल्यशब्दः प्रयुज्यते, तत्राह -

यथेति ।

अन्वयादिति पदं व्याकरोति -

एवं हीति ।

अप्ररूढेन्द्रियत्वादिरूपभावशुद्धिलक्षणबाल्यस्य प्रधानोपकारित्वे मानमाह -

तथाचेति ।

कुलीनत्वप्रकटनं सत्त्वं तद्वैपरीत्यमसत्त्वम् । शास्त्रार्थज्ञानराहित्यमश्रुतत्वं तद्वैपरीत्यं बहुश्रुतत्वम् । सदाचारनिरतत्वं सुवृत्तत्वं दुराचारनिष्ठत्वं दुर्वृत्तत्वमिति भेदः ।

तत्किमिदानीं ब्रह्मधीयोग्यस्य मुमुक्षोर्नास्त्येव किञ्चिदनुष्ठेयं, तत्राह -

गूढेति ।

चक्षुरिन्द्रियपारवश्यं निरसितुमन्धवदित्युक्तम् ।

रसनादिपारवश्यं निरस्यति -

जडवदिति ।

ज्ञानेन्द्रियपारवश्यं परिहृत्य कर्मेन्द्रियपारवश्यं परिहरति -

मूकवदिति ।

धर्मध्वजित्वाप्रकटनमव्यक्तलिङ्गत्वम् । तदेवं मुमुक्षोरुपरतसर्वेन्द्रियस्य श्रवणादिपरस्य मोक्षसाधनं तत्त्वज्ञानमवश्यम्भावीति भावः ॥ ५० ॥