ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति । किं कारणम् ? श्रवणादिपूर्विका हि विद्या । न च कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्तते । समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाः । तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः —

बाल्यान्तमुच्चावचं विद्याहेतुमुक्त्वा तत्फलं विद्याजन्मकालं निरूपयति

ऐहिकमिति ।

उक्तहेत्वधीनधीजन्मविषये कारीर्यादिफले चित्रादिफले चोभयोपलब्धेर्वृत्तानुवादपूर्वकं संशयमाह -

सर्वेति ।

श्रवणादिसामग्रीप्रतिबन्धशून्या विशिष्टधीप्रसवभूमिरित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनां विद्योपायत्वनियमासिद्धिः ।

सिद्धान्ते प्रतिबन्धाभावापेक्षया तेषां तन्नियमसिद्धिरित्युपेत्य प्रश्नपूर्वकमैहिकत्वनियमं पूर्वपक्षमाह -

किमिति ।

फलद्वैविध्योपलब्धौ तन्नियमे नास्ति हेतुरिति शङ्कते -

किमिति ।

तत्र कारणमाह -

श्रवणादीति ।

चित्रादिवदमुत्रापि धीहेतुत्वं श्रवणादेः स्यादित्याशङ्क्याह -

नचेति ।

कथं तर्हि तेषु प्रवृत्तिरित्याशङ्क्य तेषां कारीर्यादितुल्यत्वमाह -

समान इति ।

श्रवणादीनां चक्षुरादिवद्धीसाधनत्वात्कालान्तरीयकुम्भोपलम्भाय चक्षुरुन्मीलनाभाववज्जन्मान्तरीयविद्यायै श्रवणादिषु प्रवृत्त्ययोगादुपलभ्यमानसंसारदुःखनिवृत्तये च विद्यासाधानादानाज्ज्ञानात्कारीर्यादिवत्तुल्यजन्मन्येव विद्याजन्येत्यर्थः ।

यज्ञादीनां जन्मान्तरीयफलानां धीहेतुत्वस्य विविदिषावाक्यीयत्वाज्जन्मान्तरे धीजन्मेत्याशङ्क्याह -

यज्ञेति ।

तेषां धीशुद्ध्या श्रवणादिघटकत्वाद्धटितेषु तेषु धियावश्यम्भाव्यमित्यैहिकत्वनियम इत्यर्थः ।

श्रवणादीनां कारीर्यादितुल्यत्वे फलितमाह -

तस्मादिति ।

श्रवणादिषु कृतेष्वपि न चेदत्र धीः स्यात्तेषामतदुपायतैवेति प्राप्तमनूद्य चित्रावदनियतफलधीसाधनमिति सिद्धान्तमाह -

एवमिति ।