ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
सर्वापेक्षा यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यतेकिं तावत्प्राप्तम् ? इहैवेतिकिं कारणम् ? श्रवणादिपूर्विका हि विद्या कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्ततेसमान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यतेयज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाःतस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः

बाल्यान्तमुच्चावचं विद्याहेतुमुक्त्वा तत्फलं विद्याजन्मकालं निरूपयति

ऐहिकमिति ।

उक्तहेत्वधीनधीजन्मविषये कारीर्यादिफले चित्रादिफले चोभयोपलब्धेर्वृत्तानुवादपूर्वकं संशयमाह -

सर्वेति ।

श्रवणादिसामग्रीप्रतिबन्धशून्या विशिष्टधीप्रसवभूमिरित्युक्तेरत्र पादादिसङ्गतिः । पूर्वपक्षे श्रवणादीनां विद्योपायत्वनियमासिद्धिः ।

सिद्धान्ते प्रतिबन्धाभावापेक्षया तेषां तन्नियमसिद्धिरित्युपेत्य प्रश्नपूर्वकमैहिकत्वनियमं पूर्वपक्षमाह -

किमिति ।

फलद्वैविध्योपलब्धौ तन्नियमे नास्ति हेतुरिति शङ्कते -

किमिति ।

तत्र कारणमाह -

श्रवणादीति ।

चित्रादिवदमुत्रापि धीहेतुत्वं श्रवणादेः स्यादित्याशङ्क्याह -

नचेति ।

कथं तर्हि तेषु प्रवृत्तिरित्याशङ्क्य तेषां कारीर्यादितुल्यत्वमाह -

समान इति ।

श्रवणादीनां चक्षुरादिवद्धीसाधनत्वात्कालान्तरीयकुम्भोपलम्भाय चक्षुरुन्मीलनाभाववज्जन्मान्तरीयविद्यायै श्रवणादिषु प्रवृत्त्ययोगादुपलभ्यमानसंसारदुःखनिवृत्तये च विद्यासाधानादानाज्ज्ञानात्कारीर्यादिवत्तुल्यजन्मन्येव विद्याजन्येत्यर्थः ।

यज्ञादीनां जन्मान्तरीयफलानां धीहेतुत्वस्य विविदिषावाक्यीयत्वाज्जन्मान्तरे धीजन्मेत्याशङ्क्याह -

यज्ञेति ।

तेषां धीशुद्ध्या श्रवणादिघटकत्वाद्धटितेषु तेषु धियावश्यम्भाव्यमित्यैहिकत्वनियम इत्यर्थः ।

श्रवणादीनां कारीर्यादितुल्यत्वे फलितमाह -

तस्मादिति ।

श्रवणादिषु कृतेष्वपि न चेदत्र धीः स्यात्तेषामतदुपायतैवेति प्राप्तमनूद्य चित्रावदनियतफलधीसाधनमिति सिद्धान्तमाह -

एवमिति ।