ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात्इत्याशङ्क्य, आहएवं मुक्तिफलानियम इति खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यःकुतः ? तदवस्थावधृतेःमुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यतेब्रह्मैव हि मुक्त्यवस्था ब्रह्मणोऽनेकाकारयोगोऽस्ति, एकलिङ्गत्वावधारणात्अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६), वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५), यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यःअपि विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , विद्याफले मुक्तौतद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात्उत्कृष्टैव हि विद्या भवतितस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्तिविद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत् हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्तिसगुणासु तु विद्यासु मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत्तथा लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवतिइतिनैवं निर्गुणायां विद्यायाम् , गुणाभावात्तथा स्मृतिः हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२ । १९४ । ६०) इतितदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥

सम्प्रति विद्याफले मोक्षे कस्यचिदपि विशेषनियमस्याभावं दर्शयति -

एवमिति ।

विद्याफलं मुक्तिर्विषयः सा किं विद्यावदुत्कर्षापकर्षकृतविशेषवती किंवा नेति फलस्योभयथादृष्टे संशये प्रकृतविद्याफलस्य प्रसङ्गतो निरतिशयत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य कर्मसाध्यतया पुरुषार्थाधिकरणासिद्धिः ।

सिद्धान्ते तस्य ज्ञानैकसाध्यत्वात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -

यथेति ।

मुक्तिरुपचयापचयवती फलत्वाद्विद्यावदित्यनुमानात्तस्याः कर्मसाध्यत्वाधिगमात्पुरुषार्थाधिकरणमयुक्तमित्याशङ्क्य सिद्धान्तमवतार्य प्रतिज्ञां विभजते -

न खल्विति ।

उक्तेऽनुमाने जाग्रति कथमाशङ्का निरवकाशेति शङ्कते -

कुत इति ।

मुक्तिस्वरूपब्रह्मैकरूप्यावधारणशास्त्रविरोधान्नानुमेति मत्वा सूत्रावयवमादाय व्याचष्टे -

तदवस्थेति ।

मुक्तिर्नाम काचिदवस्था विद्यते चेदद्वितीयत्वविरोधादवस्थात्वाज्जाग्रदवस्थावदसावपि निवृत्तिमती स्यादित्याशङ्क्याह -

ब्रह्मैवेति ।

कथमेतावता मुक्तेरुत्कर्षनिकर्षकृतविशेषराहित्यमित्याशङ्क्याह -

नचेति ।

न स्थानतोऽपीत्यधिकरणे निर्विशेषत्वमस्थूलादिश्रुत्या ब्रह्मणो निरूपितमिति स्मारयति -

एकेति ।

इतश्च मुक्तेर्निरतिशयत्वमित्याह -

अपिचेति ।

काष्ठोपचयापचयाभ्यां ज्वालोपचयापचयदृष्टेरन्तरङ्गबहिरङ्गतदभ्यासादिसाधनोपचयापचयाभ्यां विद्यायामुपचयापचयसम्भवात्तत्फले मुक्तावपि तौ स्यातामित्याशङ्क्य हेत्वन्तरं स्फोरयति -

न विद्येति ।

विद्यैव सातिशया स्वसाध्येऽपि कथञ्चिदतिशयमादध्यादित्याशङ्क्याह -

तद्धीति ।

तर्हि मुमुक्षूणां विद्यार्थिनां प्रवृत्त्यानर्थक्यं, तत्राह -

विद्ययेति ।

तस्यामतिशयमाश्रित्य मुक्तौ नातिशयोऽस्तीत्युक्तम् ।

इदानीं विद्यापि मोक्षहेतुतत्त्वसाक्षात्कारलक्षणा नातिशयवतीत्याह -

नचेति ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेषो दर्शितः, तत्राह -

तस्मादिति ।

मुक्तावपि तर्हि तादृशोऽतिशयो भविष्यति, तत्राह -

न त्विति ।

विद्योत्पत्तिनान्तरीयकत्वेनाविद्यानिवृत्तिरूपाया मुक्तेरावश्यकत्वादित्यर्थः ।

मुक्तेर्निर्विशेषत्वे हेत्वन्तरमाह -

विद्येति ।

एकरूपत्वादात्मनस्तदाकारविद्यायां विशेषाभावादनेकरूपफलोत्पादकत्वायोगात्तत्फले विशेषासिद्धिरित्यर्थः ।

विद्यायां भेदाभावं प्रयोजयति -

नहीति ।

सगुणविद्यावदात्मविद्याया भेदः स्यादित्याशङ्क्य विषयभेदात्तत्र भेदेऽपि नात्र विषयभेदोऽस्तीत्याह -

सगुणास्विति ।

तत्र फलभेदे मानमाह -

तथाचेति ।

दार्ष्टान्तिके विशेषमाह -

नैवमिति ।

तत्त्वविद्याविशेषे गुणाभावे स्मृतिमाह -

तथाचेति ।

कस्यचित् निर्गुणविद्यावतः पुरुषस्य गतिः फलमिति यावत् ।

तत्र न्यूनाधिकभावाभावे हेतुमाह -

सति हीति ।

पुनरुक्तेरर्थवत्त्वमाह -

तदवस्थेति ।

तदेवं मुक्तेर्निरतिशयत्वान्न कर्मसाध्यतेति युक्तं पुरुषार्थाधिकरणमिति भावः ॥ ५२ ॥