ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् — इत्याशङ्क्य, आह — एवं मुक्तिफलानियम इति । न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः । कुतः ? तदवस्थावधृतेः — मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते । ब्रह्मैव हि मुक्त्यवस्था । न च ब्रह्मणोऽनेकाकारयोगोऽस्ति, एकलिङ्गत्वावधारणात् — ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६), ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५), ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , न विद्याफले मुक्तौ । तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात् । उत्कृष्टैव हि विद्या भवति । तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् । न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत् । न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति । सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायाम् , गुणाभावात् । तथा च स्मृतिः — ‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२ । १९४ । ६०) इति । तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥

सम्प्रति विद्याफले मोक्षे कस्यचिदपि विशेषनियमस्याभावं दर्शयति -

एवमिति ।

विद्याफलं मुक्तिर्विषयः सा किं विद्यावदुत्कर्षापकर्षकृतविशेषवती किंवा नेति फलस्योभयथादृष्टे संशये प्रकृतविद्याफलस्य प्रसङ्गतो निरतिशयत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य कर्मसाध्यतया पुरुषार्थाधिकरणासिद्धिः ।

सिद्धान्ते तस्य ज्ञानैकसाध्यत्वात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -

यथेति ।

मुक्तिरुपचयापचयवती फलत्वाद्विद्यावदित्यनुमानात्तस्याः कर्मसाध्यत्वाधिगमात्पुरुषार्थाधिकरणमयुक्तमित्याशङ्क्य सिद्धान्तमवतार्य प्रतिज्ञां विभजते -

न खल्विति ।

उक्तेऽनुमाने जाग्रति कथमाशङ्का निरवकाशेति शङ्कते -

कुत इति ।

मुक्तिस्वरूपब्रह्मैकरूप्यावधारणशास्त्रविरोधान्नानुमेति मत्वा सूत्रावयवमादाय व्याचष्टे -

तदवस्थेति ।

मुक्तिर्नाम काचिदवस्था विद्यते चेदद्वितीयत्वविरोधादवस्थात्वाज्जाग्रदवस्थावदसावपि निवृत्तिमती स्यादित्याशङ्क्याह -

ब्रह्मैवेति ।

कथमेतावता मुक्तेरुत्कर्षनिकर्षकृतविशेषराहित्यमित्याशङ्क्याह -

नचेति ।

न स्थानतोऽपीत्यधिकरणे निर्विशेषत्वमस्थूलादिश्रुत्या ब्रह्मणो निरूपितमिति स्मारयति -

एकेति ।

इतश्च मुक्तेर्निरतिशयत्वमित्याह -

अपिचेति ।

काष्ठोपचयापचयाभ्यां ज्वालोपचयापचयदृष्टेरन्तरङ्गबहिरङ्गतदभ्यासादिसाधनोपचयापचयाभ्यां विद्यायामुपचयापचयसम्भवात्तत्फले मुक्तावपि तौ स्यातामित्याशङ्क्य हेत्वन्तरं स्फोरयति -

न विद्येति ।

विद्यैव सातिशया स्वसाध्येऽपि कथञ्चिदतिशयमादध्यादित्याशङ्क्याह -

तद्धीति ।

तर्हि मुमुक्षूणां विद्यार्थिनां प्रवृत्त्यानर्थक्यं, तत्राह -

विद्ययेति ।

तस्यामतिशयमाश्रित्य मुक्तौ नातिशयोऽस्तीत्युक्तम् ।

इदानीं विद्यापि मोक्षहेतुतत्त्वसाक्षात्कारलक्षणा नातिशयवतीत्याह -

नचेति ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेषो दर्शितः, तत्राह -

तस्मादिति ।

मुक्तावपि तर्हि तादृशोऽतिशयो भविष्यति, तत्राह -

न त्विति ।

विद्योत्पत्तिनान्तरीयकत्वेनाविद्यानिवृत्तिरूपाया मुक्तेरावश्यकत्वादित्यर्थः ।

मुक्तेर्निर्विशेषत्वे हेत्वन्तरमाह -

विद्येति ।

एकरूपत्वादात्मनस्तदाकारविद्यायां विशेषाभावादनेकरूपफलोत्पादकत्वायोगात्तत्फले विशेषासिद्धिरित्यर्थः ।

विद्यायां भेदाभावं प्रयोजयति -

नहीति ।

सगुणविद्यावदात्मविद्याया भेदः स्यादित्याशङ्क्य विषयभेदात्तत्र भेदेऽपि नात्र विषयभेदोऽस्तीत्याह -

सगुणास्विति ।

तत्र फलभेदे मानमाह -

तथाचेति ।

दार्ष्टान्तिके विशेषमाह -

नैवमिति ।

तत्त्वविद्याविशेषे गुणाभावे स्मृतिमाह -

तथाचेति ।

कस्यचित् निर्गुणविद्यावतः पुरुषस्य गतिः फलमिति यावत् ।

तत्र न्यूनाधिकभावाभावे हेतुमाह -

सति हीति ।

पुनरुक्तेरर्थवत्त्वमाह -

तदवस्थेति ।

तदेवं मुक्तेर्निरतिशयत्वान्न कर्मसाध्यतेति युक्तं पुरुषार्थाधिकरणमिति भावः ॥ ५२ ॥