सम्प्रति विद्याफले मोक्षे कस्यचिदपि विशेषनियमस्याभावं दर्शयति -
एवमिति ।
विद्याफलं मुक्तिर्विषयः सा किं विद्यावदुत्कर्षापकर्षकृतविशेषवती किंवा नेति फलस्योभयथादृष्टे संशये प्रकृतविद्याफलस्य प्रसङ्गतो निरतिशयत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे मोक्षस्य कर्मसाध्यतया पुरुषार्थाधिकरणासिद्धिः ।
सिद्धान्ते तस्य ज्ञानैकसाध्यत्वात्तत्सिद्धिरित्यभिप्रेत्य पूर्वपक्षमाह -
यथेति ।
मुक्तिरुपचयापचयवती फलत्वाद्विद्यावदित्यनुमानात्तस्याः कर्मसाध्यत्वाधिगमात्पुरुषार्थाधिकरणमयुक्तमित्याशङ्क्य सिद्धान्तमवतार्य प्रतिज्ञां विभजते -
न खल्विति ।
उक्तेऽनुमाने जाग्रति कथमाशङ्का निरवकाशेति शङ्कते -
कुत इति ।
मुक्तिस्वरूपब्रह्मैकरूप्यावधारणशास्त्रविरोधान्नानुमेति मत्वा सूत्रावयवमादाय व्याचष्टे -
तदवस्थेति ।
मुक्तिर्नाम काचिदवस्था विद्यते चेदद्वितीयत्वविरोधादवस्थात्वाज्जाग्रदवस्थावदसावपि निवृत्तिमती स्यादित्याशङ्क्याह -
ब्रह्मैवेति ।
कथमेतावता मुक्तेरुत्कर्षनिकर्षकृतविशेषराहित्यमित्याशङ्क्याह -
नचेति ।
न स्थानतोऽपीत्यधिकरणे निर्विशेषत्वमस्थूलादिश्रुत्या ब्रह्मणो निरूपितमिति स्मारयति -
एकेति ।
इतश्च मुक्तेर्निरतिशयत्वमित्याह -
अपिचेति ।
काष्ठोपचयापचयाभ्यां ज्वालोपचयापचयदृष्टेरन्तरङ्गबहिरङ्गतदभ्यासादिसाधनोपचयापचयाभ्यां विद्यायामुपचयापचयसम्भवात्तत्फले मुक्तावपि तौ स्यातामित्याशङ्क्य हेत्वन्तरं स्फोरयति -
न विद्येति ।
विद्यैव सातिशया स्वसाध्येऽपि कथञ्चिदतिशयमादध्यादित्याशङ्क्याह -
तद्धीति ।
तर्हि मुमुक्षूणां विद्यार्थिनां प्रवृत्त्यानर्थक्यं, तत्राह -
विद्ययेति ।
तस्यामतिशयमाश्रित्य मुक्तौ नातिशयोऽस्तीत्युक्तम् ।
इदानीं विद्यापि मोक्षहेतुतत्त्वसाक्षात्कारलक्षणा नातिशयवतीत्याह -
नचेति ।
कथं तर्हि पूर्वाधिकरणे विद्याया विशेषो दर्शितः, तत्राह -
तस्मादिति ।
मुक्तावपि तर्हि तादृशोऽतिशयो भविष्यति, तत्राह -
न त्विति ।
विद्योत्पत्तिनान्तरीयकत्वेनाविद्यानिवृत्तिरूपाया मुक्तेरावश्यकत्वादित्यर्थः ।
मुक्तेर्निर्विशेषत्वे हेत्वन्तरमाह -
विद्येति ।
एकरूपत्वादात्मनस्तदाकारविद्यायां विशेषाभावादनेकरूपफलोत्पादकत्वायोगात्तत्फले विशेषासिद्धिरित्यर्थः ।
विद्यायां भेदाभावं प्रयोजयति -
नहीति ।
सगुणविद्यावदात्मविद्याया भेदः स्यादित्याशङ्क्य विषयभेदात्तत्र भेदेऽपि नात्र विषयभेदोऽस्तीत्याह -
सगुणास्विति ।
तत्र फलभेदे मानमाह -
तथाचेति ।
दार्ष्टान्तिके विशेषमाह -
नैवमिति ।
तत्त्वविद्याविशेषे गुणाभावे स्मृतिमाह -
तथाचेति ।
कस्यचित् निर्गुणविद्यावतः पुरुषस्य गतिः फलमिति यावत् ।
तत्र न्यूनाधिकभावाभावे हेतुमाह -
सति हीति ।
पुनरुक्तेरर्थवत्त्वमाह -
तदवस्थेति ।
तदेवं मुक्तेर्निरतिशयत्वान्न कर्मसाध्यतेति युक्तं पुरुषार्थाधिकरणमिति भावः ॥ ५२ ॥