ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
तृतीयेऽध्याये परापरासु विद्यासु साधनाश्रयो विचारः प्रायेण अत्यगात्अथेह चतुर्थे फलाश्रय आगमिष्यतिप्रसङ्गागतं अन्यदपि किञ्चिच्चिन्तयिष्यतेप्रथमं तावत् कतिभिश्चिदधिकरणैः साधनाश्रयविचारशेषमेवानुसरामः

पूर्वाध्यायान्तिमाधिकरणे मोक्षे प्रतिनियमाभावो दर्शितः । सम्प्रति मोक्षौपयिकविद्यासाधनेषु श्रवणादिष्वावृत्त्यानुष्ठानप्रतिनियमं दर्शयति -

आवृत्तीति ।

पूर्वोत्तराध्याययोः सम्बन्धं हेतुहेतुमद्भावं वक्तुं तार्तीयमर्थमनुद्रवति -

तृतीय इति ।

साधनविचारशेषद्योतनाय प्रायेणेत्युक्तम् । साधनाधीनत्वात्फलिद्धेस्तद्विचारयोरपि युक्तं पौर्वापर्यमित्याशयवानाह -

अथेति ।

कथं तर्हीहार्चिरादिवचनमित्याशङ्क्य फलोक्तिप्रसङ्गेन तदुक्तिरपि भविष्यतीत्याह -

प्रसङ्गेति ।

अध्यायसम्बन्धमुक्त्वा तदधिगमाधिकरणात्प्राक्तनाधिकरणानां तात्पर्यं दर्शयन्नवान्तरसम्बन्धमाह -

प्रथममिति ।

साक्षादेव श्रुत्युक्तं साधनं चिन्तितम् । अधुना फलार्थापत्तिलब्धमावृत्त्यादि चिन्त्यते तदर्थापत्त्यायत्ता च तच्चिन्ता फलाध्याये सङ्गतैवेति भावः ।