ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
लिङ्गाच्च ॥ २ ॥
लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययतितथा हिउद्गीथविज्ञानं प्रस्तुत्य, आदित्य उद्गीथः’ (छा. उ. १ । ५ । १) इत्येतत् एकपुत्रतादोषेणापोद्य, रश्मींस्त्वं पर्यावर्तयात्’ (छा. उ. १ । ५ । २) इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयतितत्सामान्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः

विषयमाक्षात्कारफलेषु प्रत्ययेष्वावृत्तौ हेत्वन्तरमाह -

लिङ्गाच्चेति ।

न केवलमसकृदुक्तेरावृत्तिसिद्धिरपि तु लिङ्गादपीत्यर्थः ।

तदेव विवृणोति -

लिङ्गमपीति ।

हे पुत्र, त्वं रश्मीनादित्यं च भेदेन पर्यावर्तयादिति तकारमन्तर्भाव्य पर्यावर्तयतादिति मध्यमैकवचनं त्वंयोगात् । पर्यावर्तयोपास्वेत्यर्थः । आदित्यस्यैकस्यैवोद्गीथे सम्पाद्योपासनात्त्वमेको मे पुत्रोऽसि त्वं तु रश्मीनुद्गीथे सम्पाद्य पर्यावर्तयतात्ततो बहवस्ते पुत्रा भविष्यन्तीत्यत्र सिद्धवत्प्रत्ययावृत्तिर्दर्शितेत्येतल्लिङ्गमित्यर्थः ।

उद्गीथप्रत्ययावृत्तावपि कथं प्रत्ययान्तरेषु तत्सिद्धिः, तत्राह -

तदिति ।

तेन प्रकृतेनोद्गीथप्रत्ययेन साक्षात्कारफलतया ध्यानत्वेन वा सादृश्यादिति यावत् । सर्वप्रत्ययेष्वहङ्ग्रहोपासनादिषु श्रवणादिषु चेत्यर्थः ।