ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
लिङ्गाच्च ॥ २ ॥
अत्राहभवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः, तेष्वावृत्तिसाध्यस्यातिशयस्य सम्भवात्यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति, तत्र किमर्था आवृत्तिरितिसकृच्छ्रुतौ ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् , , आवृत्तावपि तदनुपपत्तेःयदि हितत्त्वमसिइत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात्अथोच्येत केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति; अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमितितथाप्यावृत्त्यानर्थक्यमेवसापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यतिअथापि स्यात्युक्त्या वाक्येन सामान्यविषयमेव विज्ञानं क्रियते, विशेषविषयम्; यथाअस्ति मे हृदये शूलम्इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते, विशेषमनुभवतियथा एव शूलीविशेषानुभवश्च अविद्याया निवर्तकः; तदर्था आवृत्तिरिति चेत्असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसम्भवात् हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यतेतस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत, यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् , विचित्रप्रज्ञत्वात्प्रतिपत्तॄणाम्अपि अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति, अपरेण अपरम्इति स्यादप्यभ्यासोपयोगः, यथा दीर्घप्रपाठकग्रहणादिषु तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति

अधिकरणार्थमुक्त्वा तस्य निर्गुणब्रह्मविषयत्वमाक्षिपति -

अत्रेति ।

अहङ्ग्रहोपास्तयः श्रवणादयश्च सविशेषनिर्विशेषब्रह्मसाक्षात्कारफलास्तावदिहोदाहरणं तत्राहङ्ग्रहोपास्तिष्वावृत्तिमङ्गीकरोति -

भवत्विति ।

श्रवणादिषु तां निराचष्टे -

यस्त्विति ।

निर्गुणब्रह्मण्यापरोक्ष्यातिशयः साध्यो नास्ति तस्य नित्यापरोक्षत्वात्तेन तत्र श्रवणाद्यावृत्तिरनर्थिकेत्यर्थः ।

ब्रह्मणो नित्यापरोक्षत्वेऽपि तावताऽविद्याध्वस्तेरभावात्तदर्थमागन्तुकः साक्षात्कारः श्रवणाद्यावृत्तिसाध्योऽस्तीति शङ्कते -

सकृदिति ।

पूर्ववाद्याह -

न । आवृत्ताविति ।

अनुपपत्तिमेव प्रकटयति -

यदीति ।

ज्योतिष्टोमादिवाक्यवदावृत्तिमदपि तत्त्वमादिवाक्यं न स्वार्थे साक्षात्कारक्षममित्यर्थः ।

युक्तिप्रसङ्ख्यानसहितं वाक्यं स्वार्थे साक्षात्कारं जनयेदित्याह -

अथेति ।

युक्तिसाहित्यमुपेत्यावृत्तिं प्रत्याह -

तथापीति ।

आवृत्तेरर्थवत्त्वं समर्थयमानः स्वयूथ्यश्चोदयति -

अथापीति ।

तदेव दृष्टान्तेन स्पष्टयति -

यथेति ।

शूलविशेषस्यानुभवायोग्यत्वादेवमित्याशङ्क्याह -

यथेति ।

अस्तु प्रस्तुतेऽपि सामान्यधीरेव किं विशेषधियेत्याशङ्क्याह -

विशेषेति ।

स तर्हि भावनाजन्यो वा शास्त्रयुक्तिजन्यो वा । नाद्यस्तस्यामानजन्यत्वेनाविद्याध्वंसित्वायोगादिति मत्वा द्वितीयं प्रत्याह -

नेति ।

प्रत्यक्षातिरिक्तस्य न साक्षात्कारहेतुतेत्यर्थः ।

किञ्च युक्तिवाक्ये साक्षात्कारक्षमे तदक्षमे वा समर्थे चेदावृत्त्यानर्थक्यम् । द्वीतीयं निराह -

नहीति ।

सामर्थ्यासामर्थ्ययोरावृत्त्यानर्थक्यमुपसंहरति -

तस्मादिति ।

शास्त्रयुक्त्योः साक्षात्कारहेतुत्वोपगमेऽपि व्यर्थावृत्तिरित्याह -

नचेति ।

मेयस्वभावानुसारेणावृत्त्यानर्थक्यमुक्त्वा मेयस्वभावालोचनयापि तदानर्थक्यमाह -

अपिचेति ।